________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥२६३ ।।
भो भो ! भवद्भिर्भूयांसो, भूभुजो भुजदुर्मदाः । महामात्रैरिव व्याला, व्यधीयन्त वशंवदाः ।। ३०८ ।। वैताढ्याद्रिमतिक्रम्य, किराताश्च दुराक्रमाः । विक्रान्तैर्बाढमाक्रान्ता, हन्त ! देवैरिवाऽसुराः ।। ३०९ ।। जीयन्तां हन्त ते सर्वे, यतस्तेषु न कोऽप्यभूत् । अपि तक्षशिलाधीशपत्तिमात्रस्य सन्निभः ।। ३१० ॥ एकोऽपि सोमः सैन्यानि, तूलानीव समीरणः । दिशो दिशि क्षेप्तुमलं, ज्येष्ठो बाहुबलेः सुतः ॥३११ ।। कनिष्ठो वयसा तस्याऽकनिष्ठो विक्रमेण तु । महारथः सिंहरथः, शत्रुसैन्यदवानलः ।।३१२ ।। किञ्च बाहुबलेः पुत्रपौत्रादिष्वपेरेषु च । एकैकोऽक्षौहिणीमल्लः, कृतान्तस्याऽपि भीतये ।। ३१३ ॥ सामन्ताद्याश्च ये तस्य, स्वामिभक्त्या बलेन च । तोल्यन्ते तेऽपि तैः सार्द्ध, प्रतिमानस्थिता इव ॥३१४ ॥ अन्यसैन्येऽग्रणीर्यादृग, भवत्येको महाबलः । सर्वेऽपि तादृशाः सैन्याः, सैन्ये तस्य महौजसः ।। ३१५ ।। दूरे बाहुबलिस्तावत्, स महाबाहुराहवे । एतस्यैकोऽपि हि व्यूहो, दुःस्फोटो हन्त ! वज्रवत् ।।३१६ ॥ तयुद्धायाऽभिगच्छन्तं, सुषेणमनुगच्छत । प्रावृषेण्यं पयोवाहं, पौरस्त्यपवना इव ।। ३१७ ॥ सुधोपमगिरा भर्तुरन्तस्ते पूरिता इव । स्फारीबभूवुर्वपुषः, पुलकेन समन्ततः ॥३१८ ॥ विसृष्टास्ते नरेन्द्रेण, जयश्रीणामिव स्वयम् । वरणं प्रतिवीराणां, कुर्वाणाः स्वगृहं ययुः ।। ३१९ ॥ द्वयोरपि तदाऽऽर्षभ्योः, प्रसादार्णमहार्णवम् । तितीर्षवो वीरवराः, ससज्जू रणकर्मणे ॥३२० ॥ कृपाणचापतूणीरगदाशक्त्यादिकान्यथ । आनचुर्दैवतानीव, स्वानि स्वान्यायुधानि ते ॥३२१ ॥ शस्त्राग्रे वादयामासुस्तूर्याण्युच्चैर्महाभटाः । तालं पूरयितुमिवोत्साहाच्चित्तस्य नृत्यतः ॥ ३२२ ।। १ दुष्टगजाः । २ पराक्रमेण श्रेष्ठः । ३ प्रतिबिम्बस्थिता इव । ४ युद्धे । ५ सैन्यरचनाविशेषः । ६ मेघम् । ७ पूर्वदिक्पवनाः ।
भरतबाहुबलियुद्धम् ।
|| २६३॥