________________
त्रिषष्टि
शलाका
पुरुष
।। २६२ ।।
तत्र सैन्ये वीरमानी, काहलावादकोऽप्यभूत् । सर्वेऽपि मणिताभाजः, कर्करा अपि रोहेणे ।। २९३ ।। महामाण्डलिकच्छ्त्रमण्डलैरिन्दुपाण्डुभिः । पुण्डरीकमयीव द्यौस्तदानीं समजायत ।। २९४ ।। ययौ बाहुबलिः पश्यन्, प्रत्येकमपि भूभुजः । भुजानिव निजानुच्चैर्मन्यमानो महौजसः ॥ २१५ ॥ भुवं भारैरनीकानां जयतूर्यरवैर्दिवम् । आस्फोटयदिवोद्दामैर्व्रजन् बाहुबलिः पथि ॥ २९६ ॥ स्वदेशसीम्नि दूरेऽपि, शीघ्रं बाहुबलिर्ययौ । वायुतोऽपि भृशायन्ते, समरोत्कण्ठिताः खलु ।। २९७ ॥ गङ्गातटे बाहुबलिः, स्कन्धावारं न्यवेशयत् । नात्यासन्ने नातिदूरे, शिबिराद् भरतेशितुः ।। २९८ ।। प्रातर्युद्धोत्सवायाऽथ, मागधैर्ऋषभात्मजौ । निमन्त्रयामासतुस्तावन्योऽन्यमतिथी इव ।। २९९ ।। अथ बाहुबलिर्नक्तं, राजकानुमतं सुतम् । चक्रे सेनापतिं सिंहरथं सिंहमिवौजसा ।। ३०० ॥ मूर्ध्नि पट्टद्विपस्येव, रणपट्टोऽस्य भूभुजा । स्वयं न्यवेशि सौवर्णः, प्रताप इव भासुरः ।। ३०१ ।। स राजानं नमस्कृत्य, लब्धया रणशिक्षया । भुवेव प्राप्तया हृथे, ययावावासमात्मनः ।। ३०२ ॥ राजा युद्धार्थमादिश्याऽन्यानपि व्यसृजन्नृपान् । स्वयं रणार्थिनां तेषां सत्कारः स्वामिशासनम् ।। ३०३ ॥ कुमारनृपसामन्तसम्मतां भरतोऽपि हि । रणदीक्षां सुषेणस्य, ददावाचार्यवर्यवत् ॥ ३०४ ॥ "सिद्धिमन्त्रीमिवाऽऽदाय, सुषेणः स्वामिशासनम् । चक्रवाक इव प्रातः, काम्यन् निजगृहं ययौ ।। ३०५ ।। कुमारान् बद्धमुकुटान्, सामन्तानितरानपि । आहूय भरताधीशः, समरायैवमन्वशात् ॥ ३०६ ॥ सेनापतिः सुषेणोऽयं रणे मदनुजन्मनः । अप्रमत्तैरहमिवाऽनुगम्यो हे महौजसः ! ।। ३०७ ।।
१ कांस्याख्यवाद्यविशेषः । २ रोहणाचले । ३ चारणैः । ४ रात्रौ । सिद्धम
प्रथमं पर्व
पञ्चमः
सर्गः श्रीऋषभ
स्वामि
चरितम् ।
भरत
बाहुबलि -
युद्धम् ।
।। २६२ ।।