________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व पञ्चमः
सर्गः
॥२६१ ॥
श्रीऋषभस्वामिचरितम् ।
वर्द्धिष्णुमिव विन्ध्याद्रिमन्धकारमिवोच्छलत् । उत्पतत्पांशुपूरेण, सर्वतोऽपि प्रदर्शयन् ।। २७९ ।। हेषाहितचीत्कारकरास्फोटरवैर्दिशः । नादयन् पृतनाङ्गानां, चतुर्णामानकैरिव ।। २८० ।। शोषयन् मार्गसरितो, ग्रीष्मार्क इव सर्वतः । पवमान इवोद्दामः, पातयन्नध्वपादपान् ।। २८१ ॥ बलाकिनीमिव दिवं, कुर्वन् सैन्यध्वजांशुकैः । सैन्यार्दितामिभमदैर्भुवं निर्वापयन्निव ।। २८२ ।। दिने दिने नरपतिर्गच्छंश्चक्रपदानुगः । रायन्तरमिवाऽऽदित्यो, बहलीदेशमासदत् ।। २८३ ।।
॥पञ्चभिः कुलकम् ।। प्रवेशे तस्य देशस्य, निवेश्य शिबिरं नृपः । अवतस्थे समर्यादो, मर्यादायामिवाऽर्णवः ।। २८४ ।। अज्ञासीदागतं तत्र, सुनन्दानन्दनोऽपि तम् । राजनीतिगृहस्तम्भैः, सद्यः प्रणिधिपूरुषैः ।। २८५ ॥ अथ बाहुबलिर्यात्राहेतोभम्भामवीवदत् । प्रतिनादैनिनदन्ती, द्यां भम्भीकुर्वतीमिव ।। २८६ ॥ कृतप्रस्थानकल्याणः, कल्याणमिव मूर्तिमत् । आरुरोहोत्साहमिव, भद्रं बाहुबलिपिम् ॥२८७ ॥ नृपैः कुमारैः सचिवैः, प्रवीरैरपरैरपि । सद्योऽपि परिवव्रे स, सुरैरिव पुरन्दरः ॥२८८ ।। महाबलैर्महोत्साहैरेककार्यप्रवृत्तिभिः । अभेद्यैस्तैरात्मनोंऽशैरिव बाहुबलिर्बभौ ।।२८९ ।। निषादिनः सादिनश्च, रथिनोऽथ पदातयः । तस्येयुर्लक्षशः सद्यस्तन्मनोधिष्ठिता इव ।। २९०॥
ओजस्विभिरुदस्त्रैः स्वैरेकवीरमयीमिव । स वीरै रचयन्नुर्वी, चचालाऽचलनिश्चयः ।।२९१ ।। अहमेकोऽपि जेष्यामि, परानिति परस्परम् । तद्वारा व्यवदन्निःसंविभागजयगृध्नवः ।। २९२ ।। १ टक्काख्यवाधविशेषैः । २ पवनः । ३ बलाकायुताम् । ४ मेषादिराश्यन्तरम् । ५ गुप्तचरैः ।
भरतबाहुबलियुद्धम् ।
॥२६१ ॥