________________
त्रिषष्टिशलाकापुरुषचरिते
।। २६० ।।
नादैः प्रयाणतूर्याणां सर्वसैन्यान्यथाऽमिलन् । समहस्तकनिर्घोषैरिव सङ्गीतकारिणः ।। २६५ ।। नरेन्द्रमन्त्रिसामन्तचमूपैः परिवारितः । अनेकमूर्त्तिर्भूत्वेव, नगर्या निर्ययौ नृपः ॥ २६६ ॥ अथ यक्षसहस्रेणाधिष्ठितं भरतेशितुः । अभूत् सेनापतिरिव, चक्ररत्नं पुरस्सरम् ।। २६७ ।। राज्ञः प्रयापिशुनाः पांशुपूराश्चमूत्थिताः । दूरमाशु प्रससृपुरपेसर्पा इव द्विषाम् ।। २६८ ।। तदा प्रचलितैस्तस्य, लक्षसमयैर्मतङ्गजैः । अलक्ष्यन्त गजोत्पत्तिभूमयो निर्गजा इव ।। २६९ ॥ चलद्भिस्तस्य तुरगैः स्यन्दनैर्वेसरैर्मयैः । निर्वाहनमभून्मन्ये, सर्वमन्यन्महीतलम् ॥ २७० ॥ पादातं पश्यतां तस्य बभौ नरमयं जगत् । अम्भोधिं वीक्षमाणानामम्भोमयमिवाऽखिलम् ॥ २७१ ॥ साधितं भरतक्षेत्र, क्षेत्रमेकमिवाऽमुना । पूर्वाणीव मुनिः प्राप, रत्नान्येष चतुर्दश ।। २७२ ।। आयुक्ता इव निधयोऽस्याऽभूवन् वशगा नव । एवं सति कुतो हेतोः क्व वा प्रास्थित पार्थिवः ? ॥ २७३ ॥ यदृच्छया गच्छति वा, स्वदेशान् वैष वीक्षितुम् । द्विषत्साधनहेतुस्तच्चक्रमग्रे प्रयाति किम् ? ॥ २७४ ॥ ध्रुवं दिगनुमानेन, याति बाहुबलि प्रति । अहो ! अखण्डप्रसराः, कषाया महतामपि ।। २७५ ॥ स तावच्छ्रयते देवासुरैरपि सुदुर्जयः । तं जिगीषुरसौ मेरुमडुल्योद्धर्तुमिच्छति ॥ २७६ ॥ जितोऽनुजोऽनुजेनाऽपि, जित इत्ययशो महत् । महीपतेरुभयथाऽप्यत्र नूनं भविष्यति ।। २७७ ॥ इति प्रवादा लोकानां ग्रामे ग्रामे पुरे पुरे । मार्गे मार्गे च भूपस्य, गच्छतो जज्ञिरे चिरम् ॥ २७८ ॥ ॥ सप्तभिः कुलकम् ॥
१ प्रयाणसूचकाः । २ गुप्तचराः । ३ पदातीनां समूहम् ।
प्रथमं पर्व
पञ्चमः
सर्गः
श्रीऋषभ
स्वामि
चरितम् ।
भरत
बाहुबलियुद्धम् ।
।। २६० ।।