________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व | पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥२५९ ।।
वेश्याजन इवाऽस्नेहे, तत्राऽपि स्नेहलः प्रभुः । एवं निगदतो नश्चेन्निषेधति निषेधतु ।। २५० ॥ शत्रून् सर्वान् विजित्याऽन्तः प्रवेक्ष्यामीति संश्रवात् । निषेधिता कथं चक्रं, देवोऽद्यापि बहिःस्थितम् ।।२५१ ॥ भ्रातृव्याजाद् द्विषन्नेष, युज्यते न ह्युपेक्षितुम् । अमुमर्थं प्रभुः पृच्छत्वपरानपि मन्त्रिणः ॥२५२ ॥ सम्मुखालोकनेनाऽनुयुक्तो वसुमतीभुजा । वाचस्पतिसमोऽवोचदथैवं सचिवाग्रणीः ।। २५३ ॥ सेनानीरुक्तवान् युक्तं, कोऽन्यो वक्तुमिदं क्षमः ? | स्वामितेजो छुपेक्षन्ते. विक्रमायासभीरवः ।। २५४ ।। तेजसे स्वामिनाऽऽदिष्ट, अपि प्रायो नियोगिनः । रचयन्त्युत्तरं स्वार्थे, व्यसनं वर्धयन्ति वा ।। २५५ ।। अयं तु सेनाधिपतिर्देवकीयस्य तेजसः । पवनः पावकस्येव, केवलं वृद्धिहेतवे ।। २५६ ॥ चक्ररत्नमिव स्वामिन् !, सेनाधिपतिरप्यसौ । अपि स्तोकं द्विषच्छेषमविजित्य न तुष्यति ।। २५७ ।। पर्याप्तं तद् विलम्बेन, दण्डहस्तैस्त्वदाज्ञया । प्रयाणभम्भा तेऽद्यैव, ताड्यता प्रतिपक्षवत् ।। २५८ ।। सर्पता तन्निनादने, सवाहनपरिच्छदाः । मिलन्तु सैन्याः सुघोषाघोषणेव दिवौकसः ।। २५९ ।। विदधातु प्रयाणं च, देवस्तक्षशिलां प्रति । उत्तराभिमुखं तेजोवृद्धये भानुमानिव ॥२६०॥ गत्वा स्वयमपि स्वामी, भ्रातुः सौभ्रात्रमीक्षताम् । वेत्तु सत्यमसत्यं वा, सुवेगमुखवाचिकम् ।। २६१ ॥ तद्वचो भरताधीशस्तथेति प्रत्यपद्यत । युक्तं वचोऽपरस्याऽपि, मन्यन्ते हि मनीषिणः ॥ २६२ ॥ ततः शुभेऽह्नि भूपालः, कृतयात्रिकमङ्गलः । आरुरोह प्रयाणाय, नाग नगमिवोन्नतम् ।। २६३ ।। स्यन्दनाश्वरथारूढः, पत्तिभिश्च सहस्रशः । यात्रातूर्याण्यवाद्यन्ताऽन्यराजैकचमूनिभैः ।।२६४ ।। १ शत्रुः ।२ प्रेरितः । ३ देवसम्बन्धिनः । ४ शत्रुवत् ।
भरतबाहुबलियुद्धम् ।
॥२५९ ॥