________________
%
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व पञ्चमः सर्गः श्रीऋषभस्वामि
॥२५८ ॥
चरितम् ।
सिंहः सहेताऽऽलानं चेच्छरभो वा वशं व्रजेत् । वश्यो बाहुबलिश्च स्यात्, किं हि न्यूनं तदा भवेत् ? ।।२३५ ।। तत् सहिष्यामहे तस्य, वयं दुर्विनयानपि । यदि लोका अशक्तं मां, वदिष्यन्ति वदन्तु तत् ।। २३६ ।। सर्वमप्याप्यते वस्तु, पौरुषेण धनेन वा । न भ्राता प्राप्यते क्वाऽपि, तादृशस्तु विशेषतः ॥२३७॥ किमेवं युज्यते नो वा ?, तूष्णीमास्थाय किं स्थिताः । उदासीना इव यूयं ?, यथार्थं ब्रूत मन्त्रिणः! ।।२३८ ॥ क्षमया स्वामिनो बाहुबलेरविनयेन च । प्रहारेणेव दूनोऽथ, सेनानीरित्यवोचत ।। २३९ ॥ ऋषभस्वामिनः सूनोः, सुप्रभोर्भरतेशितुः । उचितैव क्षमा किन्तु, करुणाभाजने जने ॥२४० ॥ वसेद् ग्रामेऽपि यो यस्य, तस्याधीनः स जायते । स देशमपि भुजानो, वाचाऽपि न वशस्तव ॥२४१ ।। प्राणापहार्यपि वरं, वैरी तेजः प्रवर्द्धयन् । न तु बन्धुरपि भ्रातुस्तेजोवधविधायकः ।। २४२ ।। कोशैः सैन्यैः सुहृद्भिश्च, तनयैर्वपुषाऽपि च । तेजो रक्षन्ति राजानस्तेषां तेजो हि जीवितम् ।। २४३ ॥ किमपूर्ण स्वराज्येनाऽप्यभूद् भर्तुः कृतस्तु यः । षट्खण्डभरतक्षेत्रविजयस्तेजसे स तु ।। २४४ ।। एकत्राऽपि क्षतं तेजः, सर्वत्र क्षतमेव हि । एकदाऽपि सती लुप्तशीला स्यादसती सदा ।। २४५ ।। संविभागो धनेष्वेव, गृहिणामपि बान्धवैः । गृह्यमाणं तेऽपि तेजो, नोपेक्षन्ते मनागपि ।। २४६ ।। सकलं भरतं जिष्णोर्यदिहाऽविजयः प्रभोः । उत्तीर्णस्य पयोराशि, गोष्पदे तन्निमज्जनम् ।। २४७ ।। किञ्च श्रुतमिदं क्वाऽपि, दृष्टं वा क्वाऽपि यद् भुवि । चक्रिणोऽपि प्रतिस्पर्धी, राजा राज्यं भुनक्ति च ? ॥२४८ ॥ तत्राऽविनीते यः स्नेहो, भ्रातसम्बन्धमात्रजः । तदेतदेकहस्तेन, तालिकावादनं विभोः ।। २४९ ॥ १ बन्धनम् । २ दयापात्रे । ३ गृहिणोऽपि । ४ समुद्रम् । * ते स्नेहोऽयं
भरतबाहुबलियुद्धम् ।
ARASRASHASHRSHASHASHRSHA
||२५८ ॥