________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथम पर्व पञ्चमः सर्गः | श्रीऋषभस्वामिचरितम् ।
॥२५७॥
ईदृक् तावत् तव भ्रातौजस्वी मानी महाभुजः । गन्धद्विप इवाऽसह्यः, सहते नाऽन्यविक्रमम् ।। २२२ ।। सभायां तस्य सामन्ता, हरेः सामानिका इव । प्रचण्डभुजशौण्डीर्या, न हीयन्ते तदाशयात् ।। २२३ ।। कुमारा अपि तस्योच्चै, राजतेजोभिमानिनः । रणकण्डूलदोर्दण्डास्ततो दशगुणा इव ॥ २२४ ॥ तन्मन्त्रमनुमन्यन्ते, मन्त्रिणोऽप्यस्य मानिनः । यादृशो भवति स्वामी, परिवारोऽपि तादृशः ।। २२५ ।। तस्याऽनुरागिणः पौरा, अप्यन्यं पार्थिवं न हि । जानन्ति न सहन्ते, च, सत्योऽपरपतीनिव ॥ २२६ ॥ जना जानपदा ये च, तस्याऽष्टकरविष्टयः । भृत्या इवाऽनुरागेण, तेऽपि प्राणैः प्रियैषिणः ।। २२७ ।। वनेचरा गिरिचराः, सिंहा इव भटाश्च ये । मानसिद्धि चिकीर्षन्ति, तेऽपि तस्य वशंवदाः ।। २२८ ॥ अलमुक्त्वा बह्वथवा, स वीरो वर्त्ततेऽधुना । युयुत्सया दिदृक्षुस्त्वां, स्वामिन्नुत्कण्ठया न तु ।। २२९ ।। यदात्मने रोचतेऽतः परं स्वामी करोतु तत् । दूता न मन्त्रिणः किन्तु, सत्यवाचिकवाचिनः ॥ २३० ॥ युगपद् विस्मयामर्षमर्षहर्षादि तत्क्षणम् । नाटयित्वा भरतवद्, भरतोऽथाऽब्रवीदिति ।। २३१ ।। सुरासुरमनुष्येषु, तुल्यो नाऽमुष्य कश्चन । अर्थोऽनुभूत एवाऽयं, शिशुक्रीडास्वपि स्फुटम् ।। २३२ ।। जगत्त्रयस्वामिसूनोस्तस्याऽस्मदनुजन्मनः । त्रिलोक्यपि तृणायेति, वास्तवं न पुनः स्तवः ॥२३३ ।। सर्वथा श्लाघ्य एवाऽहमनेनाऽवरजन्मना । भाति नैको गुरुर्बाहुर्द्वितीयस्मिन् लघीयसि ।। २३४ ॥ १ गन्धहस्ती इव ।२ प्रचण्डभुजपराक्रमाः । ३ रणकण्डूयुक्तभुजदण्डाः । ४ पतिव्रताः स्त्रियः । ५ योद्धमिच्छया । ६ सत्यसन्देशवाचिनः । ७ सूत्रधारवत् । ८ सत्यम् ।
भरतबाहुबलियुद्धम् ।
॥२५७॥