________________
त्रिषष्टि
शलाकापुरुषचरिते
प्रथम पर्व पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् ।
। २५६ ॥
धिग मन्त्रिणः स्वामिहितमानिनोऽस्मानपीह धिक् । यैर्द्विषद्भिरिवोपेक्षाञ्चक्रे स्वाम्यत्र कर्मणि ।। २०७ ॥ गत्वैकेन सुवेगेन, विग्रहश्चालितः प्रभोः । भणिष्यतीति लोकस्तु, धिग दौत्यं गुणदूषणम् ।। २०८ ॥ एवं विचिन्तयन् नित्यं, दिनैः कतिपयैरपि । सुवेगो नगरी प्राप, विनीतां नीतिकोविदः ।। २०९ ।। नीतः सभायां द्वाःस्थेन, प्रणामरचिताञ्जलिः । न्यषीदत् सोऽथ पप्रच्छे, सादरं चक्रवर्तिना ॥२१०॥ किं नाम कुशलं बाहुबलेर्मदनुजन्मनः ? । यत् त्वं सुवेग ! वेगेनाऽऽगतोऽसि क्षुभितोऽस्मि तत् ।। २११ ।। अथवा तेन पर्यस्तस्ततस्त्वरितमागतः । वीरवृत्तिरियं युक्ता, मद्भातुस्तस्य दोष्मतः ।। २१२ ॥ सुवेगोऽपि जगादैवं, देव ! देवोऽपि न क्षमः । तस्याऽकुशलमाधातुं, तवेवाऽनर्वमौजसः ॥२१३ ।। स उक्तः स्वामिसेवार्थ, पूर्व विनयपूर्वकम् । मया तवाऽनुजन्मेति, नितान्तहितकाक्षिणा ।। २१४ ।। भेषजेनेव तीव्रण, परिणामोपकारिणा । सोऽवाच्यवचनीयेन, वचसा तदनन्तरम् ।। २१५ ।। न साना न खरेणाऽपि, देवसेवां स मन्यते । किं नाम भेषजं कुर्याद, विकारे सान्निपातिके ? ॥२१६ ॥ मानसारस्तृणायैतत्, त्रैलोक्यमपि मन्यते । स सिंह इव जानीते, प्रतिमलं न कञ्चन ।।२१७ ॥ अस्मिन् सुषेणसेनान्यां, सैन्ये च तव वर्णिते । किमेतदिति दुर्गन्धादिवाऽभाङ्क्षीत् स नासिकाम् ।।२१८ ॥ प्रभोर्भरतषट्खण्डविजये प्रस्तुते च सः । अनाकर्णितकं कुर्वन्, स्वदोर्दण्डौ निरीक्षते ॥२१९ ॥ तातदत्तांशतुष्टस्य, ममैवोपेक्षयाऽग्रहीत् । भरतो भरतक्षेत्रषट्खण्डमिति चाऽऽह सः ।। २२० । पर्याप्त सेवया तस्य, प्रत्युताऽऽह्वयतेऽधुना । रणाय देवं स व्याघ्रीमिव दोहाय निर्भयः ।। २२१ ॥ १ बलवतः । २ उत्तमपराक्रमस्य । ३ तीक्ष्णेन । ४ स्वभुजदण्डौ ।
भरतबाहुबलियुद्धम् ।
॥२५६ ॥