________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथम पर्व पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥२५५ ॥
ग्रावहस्ता धनुर्हस्ताः, प्लवमानाः प्लवङ्गवत् । स्वपतीन् परिवद्रुस्ते, पतिभक्ताश्ववद् भृशम् ।। १९२ ।। अद्य दद्मो बाहुबलिप्रसादावक्रयं चिरात् । भरताक्षौहिणीक्षोदादिति तेषां गिरोऽभवन् ।। १९३ ।। तेषामप्येवमारम्भ, ससंरम्भ निरूपयन् । सुवेगश्चिन्तयामास, मनसैवं विविक्तधीः ।। १९४ ।। पैतृकेणेव वैरेण, त्वरन्ते रणकर्मणे । अहो ! अमी बाहुबलिगृह्या विषयवासिनः ।। १९५ ।। किराता अप्यमी हन्तोत्सहन्ते हन्तुमागतम् । अस्मदबलं बाहुबलिबलाग्रे समरेच्छवः ।। १९६ ।। तं कञ्चन न पश्यामि, यः सज्जति युधे नहि । विद्यते स न कोऽपीह, रक्तो बाहुबलौ न यः ।। १९७ ।। शूराश्च स्वामिभक्ताश्च, बहल्यां हलिनोऽप्यहो ! । तत् किं देशस्वभावोऽयमुत बाहुबलेर्गुणः ? ।। १९८॥ भवन्तु वेतनक्रीताः, सामन्ताद्याः पदातयः । अहो ! अस्य गुणक्रीती, पत्तीभूताऽखिलाऽपि भूः ॥ १९९ ॥ बह्वीमपि चक्रिचमूं, मन्ये लघ्वी लघीयसः । श्रीबाहुबलिसैन्यस्य, तृण्यां वढेरिवाऽग्रतः ।। २०० ॥ महावीरस्य किं चाऽस्य, न्यूनं बाहुबलेः पुरः ? । कलभं शरभस्येव, शङ्के चक्रिणमप्यहो ! ॥ २०१ ॥ ओजस्वी भुवि चक्र्येव, वज्येव दिवि विश्रुतः । तयोरन्तरवद्रूर्ववर्ती वा लघुरोर्षभिः ॥२०२ ।। अपि तच्चक्रिणश्चक्रमपि वजं च वज्रिणः । मन्ये विफलमेवाऽस्य, चपेटाघातमात्रतः ।। २०३ ॥ ऋक्षः कर्णे तदात्तोऽयं, महाहिर्मुष्टिना धृतः । विरोधितो यदस्माभिरहो ! बाहुबलिबली ।। २०४ ॥ मृगमेकमिव द्वीपी, गृहीत्वा भूमिखण्डलम् । सन्तुष्टोऽयं मुधाऽस्माभिस्तर्जयित्वा खलीकृतः ।। २०५ ।। अनेकनृपसेवाभिः, किमपूर्ण नृपस्य ? यत् । अयमारम्भि सेवायै, वाहनायेव केसरी ।। २०६ ।। + रे क्व च । १ कृषीवलाः । २ तृणसमूहम् । ३ बाहुबलिः ।
भरतबाहुबलियुद्धम् ।
||२५५ ।।