________________
त्रिषष्टिशलाका
पुरुषचरिते
।। २५४ ।।
आरुह्याऽऽरुह्य वाह्याल्यां, धारोभिरपि पञ्चभिः । कर्तुं रणसहानश्वान्, केऽपि श्रममजापयन् ।। १७९ ।। अयस्कांरगृहेष्वेत्य, कृपाणादिकमायुधम् । अपरे तेजयामासुस्तेजोमूर्तिमिव प्रभोः ।। १८० ।। संयोज्य शृङ्गसाराणि, बद्ध्वाऽभिनवतन्त्रिभिः । यमभ्रूसोदराण्यन्ये, शार्ङ्गधन्वान्यसूत्रयन् ।। १८१ ।। वर्मादिवहनायोट्रानरण्यात् केचिदानयन् । तूर्याणि प्राणवन्तीव, प्रयाणेषु प्रणादिनः ।। १८२ ।। सबाणान् बार्णधीन् केचित्, सशिरस्कांश्च कैङ्कयन् । दृढानपि दृढीचक्रुः, सिद्धान्तानिव तार्किकाः ॥ १८३ ॥ केsपि गुप्यद्गुरून् काण्डपँटान् पटकुटीरपि । गन्धर्वभवनानीव, वितत्याऽऽलोकयन् क्षणात् ।। १८४ ।। स्पर्द्धयेव मिथः सर्वे, भक्ता बाहुबलौ नृपे । युधि सज्जीभवन्ति स्म, जना जानपदा अपि ।। १८५ ॥ आप्तेन तत्र यः कोऽपि, न्यवार्यत रणोन्मुखः । अनाप्तायेव तस्मै सोऽकुप्यद् भक्तिचिकीर्नृपे ।। १८६ ।। प्राणैरपि प्रियं राज्ञोऽनुरागेण चिकीर्षताम् । जनानामेवमारम्भं स ददर्श पथि व्रजन् ॥ १८७ ॥ श्रुत्वा दृष्ट्वा च तल्लोके, पर्वतीयनृपा अपि । प्रतिराजानमद्वैतभक्तिमानितयाऽमिलन् ॥ १८८ ॥ गावो गोपस्वरेणेव, निकुंजेभ्यः सहस्रशः । तेषां गोशृङ्गनादेन, किराताः प्रदधाविरे ।। १८९ ।। द्वीपिपुच्छत्वचा केचित् केकिंपिच्छैश्च केचन । लताभिः केऽपि वेगेन, बबन्धुः कुन्तलान् भटाः ।। १९० ॥ दन्दशूंकत्वचा केऽपि, तारेंव्या केचन त्वचा । केचिद् गोधात्वचाऽबध्नन्, परिधानां मृगत्वचम् ॥ १९१ ।।
१ अश्वपाटिकायाम् । २ अश्वगतिभिः । ३ लोहकारगृहेषु । ४ यमभ्रूसदृशानि । ५ निषङ्गान् । ६ वर्माणि । ७ “कनात" इति लोके । ८ पर्वतसम्बन्धिनो नृपाः । ९ लतागृहेभ्यः । १० व्याघ्रपुच्छत्वचा । ११ मयूरपिच्छैः । १२ सर्पत्वचा । १३ तरुसम्बन्धिन्या ।
प्रथमं पर्व
पञ्चमः
सर्गः
श्रीऋषभ
स्वामिचरितम् ।
भरत
बाहुबलि
युद्धम् ।
।। २५४ ।।