________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥२५३ ॥
भरत
क एष नूतनो राजद्वारान्निरगमत् पुमान् ? । आगतः खल्वयं दूतो, भरतस्य महीपतेः ।। १६५ ॥ राजा किमपरः कश्चिदप्यस्तीह महीतले ? | भ्राता बाहुबलेयेष्ठोऽयोध्यायां भरतेश्वरः ।।१६६ ॥ अत्र च प्रजिघायेम, स दूतं केन हेतुना ? । आकारणाय स्वभ्रातुः, श्रीबाहुबलिभूपतेः ।।१६७ ॥ इयत्कालं गतः क्वाऽऽसीद्, भ्राताऽस्मत्स्वामिनो ननु ? षट्खण्डभरतक्षेत्रजयाय स गतो ह्यभूत् ।।१६८ ॥ उत्कण्ठितः कनिष्ठं स, किं समाह्वयतेऽधुना ? । अन्यराजन्यसामान्यां, सेवा कारयितुं ननु ।। १६९ ।। तस्याऽसारान् नृपान् जित्वा, किं कीलेऽत्राऽधिरोहणम् ? |अखण्डश्चक्रवर्त्तित्वाभिमानस्तत्र कारणम् ।। १७० ॥ कनिष्ठेन जितो राज्ञां, स्वं कथं दर्शयिष्यति ? |न वेत्ति जितकासी स, भाविनं स्वपराभवम् ।। १७१ ॥ मन्त्रणे नाऽऽखुरप्यस्ति, भूपतेर्भरतस्य किम् ? । भूयांसो मन्त्रिणः सन्ति, मतिमन्तः क्रमागताः ।। १७२ ।। स कण्डूयियिषुस्तुण्डमहे: किं तैर्न वारितः ? । न वारितः प्रेरितः किन्त्वीदृशी भवितव्यता ॥ १७३ ॥ नागराणामिति मिथो, जल्पतामुच्चकैर्गिरम् । आकर्णयन् रथारूढो, नगर्या निर्जगाम सः ।। १७४ ।।
॥दशभिः कुलकम् ।। देवताभिरिव प्रादुष्कृतां द्वारे व्रजन्नसौ । आर्षभ्योर्विग्रहकथामितिहासमिवाऽशृणोत् ।। १७५ ।। क्रोधात् त्वरितमप्यस्य, गच्छतः स्पर्धयेव सा । वर्त्मनि त्वरिततरं, तद्विग्रहकथा ययौ ।। १७६ ॥ वार्त्तयाऽपि तया राजादेशेनेव क्षणाद् भटाः । प्रतिग्राम प्रतिपुरं, कटकाय ससज्जिरे ॥ १७७ ॥ रथान् साङ्ग्रामिकान् कृष्ट्वा, शालाभ्योऽक्षादिभिर्नवैः । केचिद् दृढतरीचक्रः, शरीराणीव योगिनः ।। १७८ ॥ १ मूषकः । २ मुखम् । ३ बाहुबलि-भरतयोः । ४ सैन्याय । ५ रथावयवादिभिः ।
बाहुबलियुद्धम् ।
॥२५३ ।।