SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ।। २५२ ।। चाटुकाराः प्रणङ्क्ष्यन्ति, ते सर्वेऽपि स्वयं त्वसौ । एकः सहिष्यते बाहुबलिबाहुबलाद् व्यथाम् ।। १५३ ।। यहि दूत ! स एवैतु, राज्यजीवितकाम्यया । तातदत्तांशतुष्टेन, मयैवोपैक्षि तस्य भूः ।। १५४ ।। चित्रकायैरिव दृढस्वाम्याज्ञापाशयन्त्रितैः । प्रकोपताम्रनयनैः, प्रेक्ष्यमाणो नरेश्वरैः ।। १५५ ।। रोषाद्धत हतेऽत्यन्तर्गृणद्भिः स्फुरिताधरैः । कटाक्ष्यमाणो विकटं, कुमारैश्च मुहुर्मुहुः ।। १५६ ।। जिघत्सुभिरिवोद्धृकैः, किञ्चिच्चलिर्तहेतिभिः । दृढाबद्धपरिकरैरीक्ष्यमाणोऽङ्गरक्षकैः ।। १५७ ।। हनिष्यते वराकोऽयं, केनाऽपि रभसाजुषा । नः स्वामिपेदिकेनेति, चिन्त्यमानश्च मन्त्रिभिः ।। १५८ ।। सज्जीकृतेन हस्तेन, पादमुत्क्षिप्य तस्थुषा । कण्ठे धर्त्तुमिवत्केनोत्थापितो वेत्रपाणिना ।। १५९ ।। सुवेगो धैर्यमालम्ब्य, मनसि क्षुभितोऽपि सन् । निर्जगाम समुत्थाय, सदः सदनतस्ततः ।। १६० ॥ ।। षड्भिः कुलकम् ॥ क्रुद्धतक्षशिलाधीशतारशब्दानुमानतः । द्वारस्थया पत्तिचम्वा, रोषक्षुभितया भृशम् ।। १६१ ।। आस्फाल्यमानैः फलकैर्नत्र्त्यमानैर्महासिभिः । उदस्यमानैश्चक्रैश्च गृह्यमाणैश्च मुद्गरैः ।। १६२ ।। स्फाट्यमानैस्त्रिंशल्यैश्च, पीड्यमानैश्च तूंणकैः । आदीयमानैर्दण्डैश्चोद्यम्यमानैश्च पर्शुभिः ।। १६३ ।। सर्वतोऽप्यात्मनो मृत्युमिव पश्यन् पदे पदे । स्खलत्पदो नृसिंहस्य, सिंहद्वारात् स निर्ययौ ॥ १६४ ॥ ॥ चतुर्भिः कुलकम् ।। १ अत्तुमिच्छुभिः । २ ऊर्ध्वकृतभ्रकुटिभिः । ३ चलितखङ्गैः । ४ साहसिकेन । ५ स्वामिपत्तिना । ६ उत्कण्ठितेन । ७ पदातिसंनया । ८ अस्त्रप्रतिघातनिवारकैः "ढ ल" इति लोके । ९ शस्त्रविशेषैः । १० निषङ्गैः । प्रथमं पर्व पञ्चमः सर्गः श्रीऋषभ स्वामिचरितम् । भरत | बाहुबलि युद्धम् । ।। २५२ ॥
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy