________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् ।
।।२५१ ॥
सर्वत्राऽप्यप्रमत्तानामलुब्धानां च नः सदा । स्खलितं किं स गृह्णीयाच्छलान्वेष्यपि भूतवत् ? ।। १३९ ।।।। किमप्यनाददानानां, तदीयं नीवृंदादिकम् । स्वाम्येव नः कथं नाम, स भवेद् भरतेश्वरः ? || १४० ।। भगवानृषभस्वामी, स्वाम्येको मम तस्य च । मिथः स्वस्वामिसम्बन्धो, घटते कथमावयोः ? ।। १४१ ।। तेजोहेतोर्मयि गते, तत्र स्यात् तस्य कीदृशम् । तेजोऽभ्युदितवत्यर्के, तेजस्वी नहि पावकः ॥ १४२ ॥ स्वामीयन्तोऽक्षमास्ते तु, निषेवन्तां क्षमाभुजः । एष येषु वराकेषु, निग्रहानुग्रहक्षमः ।। १४३ ।। सेवाऽस्मिन् भ्रातृसौहार्दपक्षणाऽपि मया कृता । चक्रवर्तित्वपक्षे स्याद्, यदबद्धमुखो जनः ।। १४४ ।। भ्राताऽस्म्यभीः स चाऽऽज्ञेश, आज्ञापयतु यद्यलम् । ज्ञातिस्नेहेन किं वज्र, वज्रेण न विदार्यते ? ॥ १४५ ।। सुरासुरनरोपस्त्यिा, प्रीतोऽस्त्वेष मयाऽस्य किम् ? | मार्ग एव क्षमः स्तम्बे, रथः सज्जोऽपि भज्यते ।। १४६ ।। तातभक्तो महेन्द्रश्चेज्ज्येष्ठं तं तातनन्दनम् । आसयत्यासनस्याऽद्धे, स किं तेनाऽपि दृप्यति ? ||१४७ ॥ ते त्वन्येऽस्मिन् समुद्रे ये, ससैन्याः सक्तुमुष्टिवत् । तेजोभिर्दुःसहोऽहं तु, हन्त ! स्यां वडवानलः ।। १४८ ॥ पत्तयोऽश्वा रथा नागाः, सेनानीर्भरतोऽपि च । मयि सर्वे प्रलीयन्तां, तेजांसीवाऽर्कतेजसि ॥ १४९ ।।। करिणेव करेणोच्चैर्यः समादाय पादयोः । मयोदलालि गगने, बालत्वे लोष्टुलीलया ।। १५० ॥ गगने दूरमध्वानं, गत्वा यश्च पतन् भुवि ।मा भूत् परासुरित्येष, मया प्रेत्यैषि पुष्पवत् ।। १५१ ।। चाटुभिश्चाटुकाराणां, निर्जितानां क्षमाभुजाम् । व्यस्मार्षीत् तदसौ प्राप्तो, जन्मान्तरमिवाऽधुना ।। १५२ ।। १ ग्रहणं अकुर्वाणानाम् ।२ देशादिकम् । ३ स्वामिवदाचरन्तः । ४ भरतः । ५ निर्भीकः । ६ आज्ञाकारकः । ७ उपासनया । ८ काण्डरहिते वृक्षादौ । ९ प्रत्यग्रहीष्ट ।
भरतबाहुबलियुद्धम् ।
।।२५१ ॥