________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथम पर्व पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् ।
।।२५०॥
भरत
सुरासुरनृपश्रीभिर्ऋद्धः सोऽस्माभिरागतैः । लज्जिष्यतेऽल्पविभवैरागमायेति नो वयम् ।। १२४ ।। षष्टि वर्षसहस्राणि, परराज्यानि गृह्णतः । कनिष्ठराज्यग्रहणे, व्यग्रता तस्य कारणम् ।। १२५ ॥ सौभ्रात्रं कारणं तस्य, यदि तत् प्राहिणोत् कथम् । भ्रातृणामेकशो दूतान्, राज्यसङ्ग्रामकाम्यया ? ।। १२६ ॥ को भ्राता ज्यायसा सार्थ, लुब्धेनाऽपि हि योत्स्यते ? |इति बुद्ध्या महासत्त्वाः, कनिष्ठास्तातमन्वगुः ।। १२७ ॥ तेषां च राज्यग्रहणेनाऽपि त्वत्स्वामिनो ध्रुवम् । छलमन्वीक्षमाणस्य, प्रकटं बकचेष्टितम् ॥ १२८ ॥ असावस्मास्वपि स्नेह, तादृशं दर्शयन्नहो ! । प्रजिघाय विशिष्टं त्वां, वाक्प्रपञ्चविचक्षणम् ॥ १२९ ।। प्रव्रज्य भ्रातृभी राज्यदानाद् याऽकारि तस्य मुंत् । आगतेन मया राज्यगृध्नोः किं सा करिष्यते ? ।।१३० ॥ वज्रादपि कठोरोऽहं, यत् स्वल्पविभवोऽपि सन् । तस्य ऋद्धिं न गृह्णामि, भ्रातृन्यक्कारकातरः ।।१३१ ॥ स तु पुष्पादपि मृदुर्मायावी योऽनुजन्मनाम् । अवर्णवादभीरुणां, राज्यानि स्वयमाददे ॥ १३२ ।। निर्भया निर्भयेभ्योऽपि, कथं दूत ! वयं ननु । भ्रातृराज्यानि गृह्णन्तं, यदुपेक्षामहे स्म तम् ? ।। १३३ ॥ गुरौ प्रशस्यो विनयो, गुरुर्यदि गुरुर्भवेत् । गुरौ गुरुगुणैर्हाने, विनयोऽपि त्रपास्पदम् ।। १३४ ।। गुरोरप्यवलिप्तस्य, कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य, परित्यागो विधीयते ।। १३५ ।। तस्याऽऽच्छिन्नं किमश्वादि ?, भग्नं वा नगरादिकम् ? । येनाऽविनयमस्माकं, सोह्या सर्वसहो नृपः ।। १३६ ॥ दुर्जनप्रतिकाराय, न तत्र प्रयतामहे । विमुश्यकारिणः सन्तः, किं दुष्यन्ते खलोक्तिभिः ? ।। १३७ ।। इयत्कालं नाऽऽगताः स्मो, यतो हेतोः स किं ययौ । अनीझलक्षणः क्वाऽपि ?,यामो येनाऽद्य चक्रिणम् ॥१३८ । १ प्रेषयामास । २ राज्यलुब्यस्य । ३ प्रातृतिरस्कारकातरः । ४ लज्जास्थानम् । ५ सावलेपस्य । ६ निःस्पृहालक्षणः ।
| बाहुबलियुद्धम् ।
॥२५०॥
+ आनन्दः ।