________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व पञ्चमः
सर्गः
॥२४८॥
श्रीऋषभस्वामिचरितम् ।
कञ्चिद् विकल्पं सङ्कल्प्य, भरतं न समाययुः । ययुस्तु तातपादान्तं, दीक्षामाददिरे च ते ।। ९६ ।। तेषां सम्प्रत्यरागाणां, न कोऽपि स्वो न वा परः । तैः कथं पूर्यते राज्ञो, भ्रातृवात्सल्यकौतुकम् ? ॥ ९७ ॥ तदेहि देहि हृदयप्रमोदं मेदिनीपतेः । तवाऽपि यदि तत्राऽस्ति, स्नेहः सौभ्रात्रसम्भवः ।। ९८ ।। कुलिशादप्यधिकं वः, कठोरांस्तर्कयाम्यहम् । चिराद् दिगन्तादायाते, ज्येष्ठेऽप्येवं यदास्यते ॥ ९९ ॥ शङ्के वो गुर्ववज्ञानान्निर्भयेभ्योऽपि निर्भयान् । शरैरपि वर्तितव्यं, गरौ हि सभयैरिव ।। १०० ।। एकत्र विश्वविजयी, विनयी चाऽन्यतो गुरौ । पारिषद्यैर्विचार्यालं, द्वैतीयीकः प्रशस्यते ।। १०१ ॥ तवाऽविनयमप्येवं, सोढा सर्वसहो नृपः । कर्णेजपानां किन्त्वेवमवकाशो निरङ्कुशः ।। १०२ ।। पिशुनानां गिरस्तत्र, त्वदभक्तिप्रकाशिकाः । दूषयिष्यन्ति तच्चेतः, क्षीरं शुक्तच्छेटा इव ।। १०३ ।। अत्यल्पमपि तद् रक्ष्यमात्मच्छिद्रं निजे प्रभौ । छिद्रेण लघुनाऽप्यम्भः, सेतुमुन्मूलयत्यहो ! ॥ १०४ ।। इयत्कालं नागतोऽस्मीत्याशङ्कां हृदि मा कृथाः । अधुनाऽप्येहि सुस्वामी, गृह्णाति स्खलितं नहि ॥ १०५ ।। त्वयि तत्र गते सद्यः, पिशुनानां मनोरथाः । विलीयन्तां हिमानीव, नभोभाजि नभोमणौ ।। १०६ ।। तेजोभिश्चिरमेधस्व, स्वामिना तेन सङ्गमात् । अद्यैव पर्वणि दिवाकरेणेव निशाकरः ।। १०७ ।। स्वामीयन्तस्तमन्येऽपि, बहवो बाहुशालिनः । सेवाशालीनतां हित्वा, सेवन्ते प्रतिवासरम् ।। १०८ ॥ अवश्यं सेवनीयो हि, चक्रवर्ती महीधवैः । निग्रहानुग्रहसहः, सहस्राक्ष इवाऽमरैः ।। १०९ ।। १ पिशुनानाम् । २ भरतस्य चेतः । ३ काञ्जिकम् । ४ हिमसमूहः । ५ सूर्ये । ६ स्वामिवदाचरन्तः । ७ इन्द्रः ।
भरतबाहुबलियुद्धम् ।
।।२४८॥