________________
त्रिषष्टिशलाका
पुरुषचरिते
।। २४७ ।।
षष्टिं वर्षसहस्राणि कृत्वा कटकमुत्कटम् । सेनान्यादिपरीवारः कच्चित् कुशलमागतः ? ॥। ८२ ।। सिन्दुरारुणितैः कुम्भैद्यां सन्ध्याभ्रमयीमिव । वितन्वती करिघटा, राज्ञः कच्चिन्निरामया ? ।। ८३ ।। आ हिमाद्रिमहीमेतां, समाक्रम्य समेयुषाम् । राज्ञो वरतुरङ्गाणां वर्त्तते कच्चिदक्लमः ? ॥ ८४ ॥ अखण्डाज्ञस्य सर्वत्र, सेव्यमानस्य पार्थिवैः । सुखेन व्यतिगच्छन्ति, कच्चिदार्यस्य जासराः ? ।। ८५ ।। परिपृच्छ्येति तूष्णीके, स्थिते वृषभनन्दने । कृताञ्जलिरनावेगः, सुवेग इदमभ्यधात् ॥ ८६ ॥ इलायाः सकलाया यः करोति कुशलं स्वयम् । अस्ति तस्य स्वतः सिद्धं कुशलं भरतेशितुः ॥ ८७ ॥ पुर्याः सुषेणादीनां च, हस्त्यश्वस्य च किं क्षमः ? । दैवोऽप्यकुशलं कर्त्तुं येषां नेता तवाऽग्रजः ॥ ८८ ॥ तुल्योऽधिको वा किं कोऽपि, क्वाऽप्यस्ति भरतेशितुः । षण्णां भरतखण्डानां जये यो विघ्नकृद् भवेत् ? ॥ ८९ ॥ अखण्डिताज्ञः सर्वत्र, सेव्यते च नरेश्वरैः । तथाऽपि भरताधीशो, जातु नाऽन्तेः प्रमोदते ॥ ९० ॥ दरिद्रोऽपि कुटुम्बेन, सेव्यते यः स ईश्वरः । न सेव्यते तु यस्तेन तस्यैश्वर्यसुखं कुतः ? ।। ९१ ॥ षष्टिवर्षसहस्रान्तादेर्युषा ज्यायसा तव । उत्कण्ठया कनिष्ठानामागमाध्वा निरीक्षितः ।। ९२ ।। सर्वे तत्राऽऽययुर्बन्धुसम्बन्धिसुहृदादयः । विदधुश्च महाराज्याभिषेकं भरतेशितुः ॥ ९३ ॥ आसतां तैः समायातैः, सुरैरपि सवासवैः । न हृष्यति महीनाथोऽपश्यन् पार्श्वे निजानुजान् ।। ९४ ।। द्वादशस्वपि वर्षेषु, ज्ञात्वा भ्रातॄननागतान् । तानाह्नातुं नरं प्रैषीदुत्कण्ठा हि बलीयसी ।। ९५ ।। १ अश्रमः । सुखेनैवातिग + एवमापृच्छ्य । २ स्थिरः । ३ पृथ्व्याः । ४ नायकः । ५ अन्तःकरणे । ६ आगतेन । ७ आगमनमार्गः ।
प्रथमं पर्व | पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् ।
भरत
बाहुबलियुद्धम् ।
।। २४७ ।।