SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व पञ्चमः सर्गः | श्रीऋषभस्वामिचरितम् । ॥२४४ ॥ अभ्रलिहतरुस्तोमतिरोहितदिवाकराम् । रहोरतभुवं मृत्योरिवाऽऽप स महाटवीम् ।। ४२ ।। ।। पञ्चभिः कुलकम् ।। घोरां तामटवीं वेगात्, सुवेगो वेगवद्रथः । सलीलं लङ्घयामास, विपदं पुण्यवानिव ।। ४३ ॥ मार्गान्ततरुविश्रान्तरलङ्करणधारिभिः । संलक्ष्यमाणसौराज्यं, सुस्थैः पान्थवधूजनैः ॥ ४४ ।। गोकुले गोकुले तृक्षतलासीनैः प्रमोदिभिः । गीयमानर्षभस्वामिचरितं गोपदारकैः ।। ४५ ।। भद्रशालादिवाऽऽहत्याऽऽरोपितैः फलमालिभिः । अलङ्कताखिलग्राम, बहलैर्बहुभिर्दुमैः ।। ४६ ॥ पत्तने पत्तने ग्रामे, ग्रामे वेश्मनि वेश्मनि । दानैकदीक्षितैरिभ्यः, शोध्यमानवेनीपकम् ।। ४७ ॥ आगतैर्भरतात् त्रस्तैरिवोदग्भरतार्द्धतः । प्रायेणाऽध्यासितग्राम, म्लेच्छरक्षीणऋद्धिभिः ।। ४८ ॥ षड्भ्यो भरतखण्डेभ्यः, खण्डान्तरमिव स्थितम् । भरताज्ञानभिज्ञं स, बहलीदेशमासदत् ।। ४९ ।। ॥सप्तभिः कुलकम् ।। ऋते श्रीबाहुबलिनं, राजान्तरमजानतः । जनान् जानपदान् मार्गेष्वना न् वार्तयन् मुहुः ॥ ५० ॥ वनेचरान् गिरिचरान्, दुर्मदान् श्वापदानपि । द्राक् खञ्जीभवतः पश्यन्, सुनन्दानन्दनाज्ञया ।। ५१ ॥ प्रजानामनुरागोक्त्या, महतीभिश्च ऋद्धिभिः । अद्वैतमनुमिमानः, श्रीबाहुबलिनो नेयम् ।। ५२ ।। भरतावरजोत्कर्षाकर्णनाद् विस्मृतं मुहुः । अनुस्मरन् वाचिकं स, प्राप तक्षशिलापुरीम् ।। ५३ ।। ॥चतुर्भिः कलापकम् ।। किञ्चिल्लोचनपातेन, पुरीपरिसरोषितैः । प्रेक्ष्यमाणः क्षणं लोकैरेकपान्थावलीढ्या ।। ५४ ॥ १ घनैः । २ याचकम् । ३ सुखिनः । ४ हिंसप्राणिनः । ५ अनुमानं कुर्वन् । ६ नीतिम् ।७ सन्देशम् । R5RSHASABHARASHARASHRSHASTRA भरतबाहुबलियुद्धम् । ||२४४ ॥
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy