________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् ।
।।२४३ ॥
समेष्वपि हि मार्गेषु, रथस्तस्याऽस्खलन्मुहुः । अप्यसंयुक्तवर्णेषु, जिह्वा लल्लगिरामिव ।।२९ ॥ सादिभिर्वार्यमाणोऽपि, प्रेर्यमाण इवाऽसकृत् । कृष्णसारः पुरस्तस्य, दक्षिणाद् वामतो ययौ ॥३०॥ तस्याऽग्रे करटः शुष्के, निविष्टः कण्टकद्रुमे । अरसत् कटुकं घर्षश्चचूं शस्त्रमिवोपले ।।३१ ।। उत्ततार पुरस्तस्य, प्रलम्बः कृष्णपन्नगः । क्षिप्तार्गलेव दैवेन, तद्याननिरुरुत्सया ॥३२॥ प्रतिकूलो ववौ वायुश्चक्षुषोः प्रक्षिपन् रजः । पर्यस्यन्निव तं पश्चाद्, विचारैकविपश्चितम् ।।३३ ।। तस्य दक्षिणतो भूत्वा, विररास च राँसभः । अभोजितप्रस्फुटितमृदङ्गविरसस्वरः ।।३४ ॥ सुवेगोऽगादनिमित्तान्येतानि प्रविदन्नपि । सद्धृत्याः स्वामिनः क्वाऽपि, काण्डवत् प्रस्खलन्ति न ॥३५ ॥ ललवे स बहून ग्रामनगराकरकर्बटान् । तद्वासिभिर्दृश्यमानो, वात्यावर्त इव क्षणम् ।।३६ ॥ तरुखण्डसर सिन्धुपुलिनप्रभृतिष्वपि । विशश्राम न स स्वामिकार्यतोऽत्र प्रवर्तितः ।। ३७ ॥ किरातैः सज्जकोदण्डैः, शरव्यीकृतकुञ्जरैः । चमूरुचर्मसंव्यानैर्जातुधानैरिवाऽऽकुलाम् ॥ ३८ ॥ चमूरु-चित्रक-व्याघ्र-हरिभिः शैरभैरपि । सगोत्रैरन्तकस्येव, क्रूरसत्त्वैर्निरन्तराम् ।। ३९ ॥ युध्यमानाहि-नकुलवामलूरबिभीषणाम् । भल्लूकीकेशधरणव्यग्रबालकिरातिकाम् ॥ ४० ॥ मिथो महिषसङ्ग्रामभज्यमानजरत्तरुम् । नाहलोत्थापितक्षौद्रमक्षिकाभिरसञ्चराम् ॥४१॥ १ स्खलगिराम ।२ मुगविशेषः । ३ काकः । ४ पाषाणे । ५ कृष्णसर्पः । ननिषिषित्सया ॥ ६ विचारैक-चतुरम् ।७ गर्दभः । ८ बाणवत् । ९ चक्रवातः । १० लक्ष्यीकृतकुञ्जरैः । + चमूरच । ११ मृगविशेषः । - चमूरैश्चित्रकाप्रैर्ह । १२ अष्टयपदैः । १३ वल्मीकाः ।
ARRAHASRA9RSHARE
भरतबाहुबलियुद्धम् ।
ANSARASHARABHASHASHRSHREASE
॥२४३ ॥