________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथम पर्व पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥२४२ ।।
दावाग्निमेघवृष्टिभ्यामिवाऽनिर्भरतेश्वरः । सद्यः कोपोपशान्तिभ्यामाश्लिष्टोऽथाब्रवीदिदम् ॥ १४ ॥ नाऽनुजोऽपि करोत्याज्ञामिति लज्जाकृदेकतः । सार्द्ध कनीयसा युद्धमिति चैकत्र बाधते ॥ १५ ॥ स्वगृहेऽपि न यस्याऽऽज्ञा, तस्याऽऽज्ञा हासकृद् बहिः । प्रवादश्च कनिष्ठस्याऽविनयासहने मम ॥ १६ ॥ एकतो राजधर्मोऽयं, दृप्तानां दर्पशातैनः । इतो भ्रातरि सौभ्रात्रं, सङ्कटे पतितोऽस्मि हा! ॥१७॥ अमात्योऽप्यभ्यधादेवं, स्वमहत्त्वेन सङ्कटम् । यद् देवस्य कनीयांस्तत्, स एव ह्यपनेष्यति ।। १८ ॥ आज्ञा हि ज्यायसा देया, कर्त्तव्या च कनीयसा । आचारो रुढ एवाऽयं, सामान्यगृहिणामपि ॥ १९ ॥ भ्रातरं तत् कनीयांसं, लोकरुढेन वर्त्मना । आज्ञापयतु देवोऽपि, प्रेष्य सन्देशहारकम् ॥ २० ॥ आज्ञां सर्वजगन्मान्यां, वीरमानी तवाऽनुजः । सहिष्यते न चेद् देव!, पर्याणमिव केसरी ॥ २१ ॥ प्रशास्यास्त्वं तदा पाकशासनोद्गाढशासनः । न चाऽपवादस्ते लोके, लोकाचारानतिक्रमात् ।। २२ ।। तथेति प्रतिपेदे तद्वचनं मेदिनीपतिः । उपादेया शास्त्रलोकव्यवहारानुगा हि गीः ।। २३ ॥ अनुशिष्य ततो दूतं, नयज्ञं वाग्मिनं दृढम् । सुवेगं नाम नृपतिः, प्रैषीद् बाहुबलिं प्रति ॥ २४ ॥ स्वामिशिक्षा दौत्यदीक्षामिवाऽऽदाय स सौष्ठवाम् । सुवेगो रथमारुह्याऽचलत् तक्षशिलां प्रति ॥२५ ।। सारसैन्यपरीवारो, रथेनाऽसैह्यरंहसा । निर्ययौ स विनीताया, राजाज्ञेव वपुष्मती ॥ २६ ॥ कार्यारम्भविधौ वाम, दैवं पश्यदिवाऽसकृत् । पस्पन्दे लोचनं वाम, गच्छतस्तस्य वर्त्मनि ॥२७॥ नाडी नाडीन्धमस्येव, वह्निमण्डलमध्यतः । उवाह दक्षिणा तस्य, रोगाभावेऽप्यनारतम् ॥२८॥ १ गर्वनाशकः । २ ज्येष्ठेन । ३ लघुना । ४ वाचालम् । ५ वेगवता । ६ प्रतिकूलम् ।७ सुवर्णकारस्य ।
ARRAS
भरतद बाहुबलि
युद्धम् ।
||२४२ ॥
S HRSHASE