________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व |पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् ।
।। २४१ ॥
पञ्चमः सर्गः ।। ततश्च भरताधीशः, सदःसदनमीयिवान् । सुषेणसेनापतिना, नमस्कृत्येत्यभाष्यत ।। १ ॥ कृत्वाऽपि दिग्जयमिदं, तव चक्रं पुरीभिमाम् । अद्याऽपि न प्रविशति, स्तम्भं व्याले इव द्विपः ॥२॥ बभाषे भरतोऽप्येवं, षट्खण्डभरतान्तरे । अद्याऽपि वीरः को नाम, ममाऽऽज्ञान प्रतीच्छति ? ||३ ।। तदैव सचिवोऽवोचज्जाने देवेन निर्जितम् । एतद्धि भरतक्षेत्रमाक्षुद्रहिमवद्गिरि ॥ ४ ॥ जेयः किमवशिष्टोऽस्ति, दिग्यात्राकृत्यपि त्वयि ? । भ्रमघरट्टे पतितास्तिष्ठन्ति चणकाः किम् ? ॥ ५ ॥ पुर्यामप्रविशच्चैतच्चक्रं सूचयति प्रभो ! । कमप्यद्याऽपि जेतव्यं, त्वदाज्ञालङ्घनोन्मदम् ॥ ६ ॥ देवेष्वपि न पश्यामि, जेतव्यं दुर्जयं च ते । आ ज्ञातमथवाऽस्त्येको, जेतव्यो विश्वदुर्जयः ॥७॥ ऋषभस्वामिनः सूनुः, स्वामिन्नवरजस्तव । महाबलो बाहुबलिर्बलिनां बलसूदनः ।। ८ ।। सर्वास्त्राण्येकतो वज्रमेकतश्च यथा तथा । एकतो राजकं सर्व, स बाहुबलिरेकतः ॥९॥ लोकोत्तरो यथाऽसि त्वमृषभस्वामिनन्दनः । तथा सोऽपि तदेतस्मिन्नजिते किं जितं त्वया ? ॥१०॥ षट्खण्डे भरते दृष्ये, न कोऽपि स्वामिनः समः । तज्जये परभागोऽस्तु, को नाम भरतेशितुः ? ॥११॥ अयं खलु जगन्मान्यां, भवदाज्ञां न मन्यते । तदसाधनतश्चक्रमेति हीणमिवेह न ।। १२ ।। उपेक्षितव्यो न परः, स्वल्पोऽप्यामयवद् यतः । तदद्याऽलं विलम्बेन, यतध्वं तज्जयं प्रति ॥ १३ ॥ १ सभामण्डपम् । २ दुष्टगजः । ३ लघुभ्राता । ४ राजसमूहम् । ५ उत्कर्षता । ६ लज्जितमिव । ७ शत्रुः ।
भरतबाहुबलियुद्धम् ।
॥२४१ ॥