________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ २४० ॥
दूराम्बुत्वेन कूपस्य मध्येऽपि गलिताम्बुकम् । निश्चोत्य पूलं द्रमकः, स्नेहपोतमिवाऽपिबत् ।। ८४२ ॥ नच्छिन्ना याऽर्णवाद्यैस्तृट् छेद्या पूलाम्भसा न सा । तद्वद् वः स्वः सुखाच्छिन्ना, छेद्या राज्यश्रिया किमु ? । ८४३ । अमन्दानन्दनिःस्यन्दनिर्वाणप्राप्तिकारणम् । वत्साः ! संयमराज्यं तद्, युज्यते वो विवेकिनाम् ।। ८४४ ।। तत्कालोत्पन्नसंवेगवेगा भगवदन्तिके । तेऽष्टानवतिरप्याशु, प्रव्रज्यां जगृहुस्ततः ।। ८४५ ।। अहो ! धैर्यमहो ! सत्त्वमहो ! वैराग्यधीरिति । चिन्तयन्तस्तत्स्वरुपं, दूता राज्ञे न्यवेदयन् ॥ ८४६ ॥ ज्योतींषीव ज्योतिषां ज्योतिरीशस्तेजांसीवाऽर्हपतिः पावकानाम् ।
वारीणीव स्रोतसां वारिराशिस्तेषां राज्यान्याददे चक्रवर्ती ॥। ८४७ ।।
܀ ܀ ܀ ܀ ܀
। इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये प्रथमे पर्वणि भरतचक्रोत्पत्ति-दिग्विजय - राज्याभिषेक - सोदर्यव्रतग्रहणकीर्त्तनो नाम
चतुर्थः सर्गः ।
१ स्वर्गसुखाच्छिन्ना ।
प्रथमं पर्व
चतुर्थः
सर्गः
श्रीऋषभ
स्वामि
चरितम् ।
पुत्रान् प्रति
अङ्गारकारक
दृष्यन्तेन प्रभोरुपदेशः,
तेषां दीक्षा च ।
।। २४० ।।