________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व पञ्चमः
सर्गः
।। २४५ ॥
श्रीऋषभस्वामिचरितम् ।
मरत
लीलोद्यानेषु सम्भूय, खेलेन खुरलीजुषाम् । सुभटानां भुजास्फोटैस्त्रस्यद्रथतुरङ्गमः ।। ५५ ।। इतस्ततः पौरऋद्धिप्रेक्षणव्यग्रताजुषा । दक्षिणस्थेनाऽनिषिद्धोत्पथगामिस्खलद्रथः ॥५६ ॥ एकत्रेवेभरत्नानि, समस्तद्वीपचक्रिणाम् । बद्धान वरगजान् पश्यन्, बहिरुद्यानशाखिषु ।। ५७ ॥ प्रेक्षमाणो मन्दुराँश्च, बन्धुरास्तुरगोत्तमैः । ज्योतिष्काणां विमानानि, विहायेव समागतैः ।। ५८ ॥ भरतावरजैश्वर्याश्चर्यालोकनजन्मना । शिरोऽयेव शिरो धुन्वन्, प्रविवेश स तां पुरीम् ।। ५९ ।।
॥षड्भिः कुलकम् ।। स्वच्छन्दवृत्तीनत्याढ्यानापणेषु वणिग्जनान् । अहमिन्द्रानिव पश्यन्, राजद्वारं जगाम सः ॥६०॥ सहस्ररोचिषो रोचीष्याच्छिद्येव विनिर्मितान् । कुन्तान् दधानः कुत्राऽपि, पत्त्यनीकैरधिष्ठितम् ।।६१ ॥ बिभ्राणैरिक्षुपत्रास्यान्ययःशल्यानि पत्तिभिः । शोभितं कुत्रचिच्छौर्यद्रुमैः पल्लवितैरिव ।। ६२ ।। अभङ्गानश्मभङ्गेऽपि, बिभ्रद्भिर्लाहमुद्गरान् । सनाथं क्वाऽपि सुभटैरेकदन्तैरिव द्विपैः ।। ६३ ।। फलकासिधरैः क्वाऽपि, चन्द्रकेतुधरैरिव । शोभितं वीरपुरुषप्रकाण्डैश्चण्डशक्तिभिः ॥६४ ।। आ नक्षत्रगणं दूरापातिभिः शब्दवेधिभिः । तूणपृष्ठैः कालपृष्ठपाणिभिः क्वाऽप्यधिष्ठितम् ।। ६५ ॥ उद्दामशुण्डादण्डाभ्यां, स्थिताभ्यां पार्श्वयोर्द्वयोः । इभाभ्यां द्वारपालाभ्यामिव दूराद् भयङ्करम् ॥६६॥ सिंहद्वारं नृसिंहस्य, पश्यन् विस्मितमानसः । द्वाःस्थप्रतीक्षितस्तस्थौ, स्थितिरेषा नृपौकसाम् ।। ६७ ॥
|| सप्तभिः कुलकम् ।। १शराभ्यासजुषाम् । २ सारथिना । ३ अश्वशालाः । ४ हट्टेषु । ५ सूर्यस्य । ६ तेजांसि । ७ नक्षत्रगणपर्यन्तम् । ८ धनुःपाणिभिः ।
बाहुबलि
युद्धम् ।
॥२४५ ।।