________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथम पर्व चतुर्थः सर्गः श्रीऋषभस्वामिचरितम् ।
॥२१२ ॥
फणामणीनिवाहीनामेकतः पुञ्जितान् मणीन् । अन्तःसारमिव मेरोश्चारुचामीकरोत्करम् ।। ४४९ ।। अश्वरत्नप्रतिच्छन्दानिवाऽश्वानपि लक्षशः । उपायनेऽर्पयामासुस्ते नत्वा भरतेशितुः ॥ ४५० ॥॥युग्मम्।। निबद्धाञ्जलयो मूध्नि, वाचा चाटूक्तिगर्भया । सगर्भा इव सूतानामिति चोच्चैर्बभाषिरे ।। ४५१ ।। विजयस्व जगन्नाथ !, प्रचण्डाखण्डविक्रम ! । आखण्डल इवाऽसि त्वं, षट्खण्डे क्षोणिमण्डले ॥४५२ ।। वैताठ्यपर्वतस्याऽस्मद्भवप्रस्यैकभूपते ! । गुहाप्रतोलीं त्वते, क उद्घाटयितुं क्षमः ? ॥४५३ ॥ ज्योतिश्चक्रमिवाऽऽकाशे, स्कन्धावारं जलोपरि । अन्यो धर्तुमलम्भूष्णुर्जिष्णो ! त्वमन्तरेण कः ? ॥ ४५४ ॥ एवमद्भुतया शक्त्या, स्वामिन्नापि दिवौकसाम् । अजय्य इति विज्ञातोऽस्य॑ज्ञानागः सहस्व नः ॥ ४५५ ॥ नवं जीवातुमधुना, पृष्ठे हस्तं प्रयच्छ नः । स्थास्यामोऽतः परं नाथ !, त्वदाज्ञावर्तिनो वयम् ॥ ४५६ ।। भरतोऽप्यात्मसात्कृत्य, तान् सत्कृत्य च कृत्यवित् । विससर्बोत्तमानां हि, प्रणामावधयः क्रुधः ।। ४५७ ।।। गिरिसागरमर्याद, सिन्धोरुत्तरनिष्कुटम् । नृपाज्ञया सुषेणोऽथ, साधयित्वा समाययौ ॥ ४५८ ।। भोगान् तत्रोपभुजानश्चिरं तस्थौ महीपतिः । आर्मीकर्तुमिवाऽनार्यान्, निजार्यजनसङ्गमात् ॥ ४५९ ॥ अन्यदाऽऽयुधशालाया, भाविशालं महीभृतः । चक्ररत्नं निरक्रामत्, प्रतिभूः ककुभां जये ॥ ४६०॥ गच्छतः पूर्वमार्गेणाऽभि क्षुद्रहिमवद्गिरिम् । ययौ तस्याऽध्वना राजा, प्रवाह इव कुल्यया ॥४६१ ॥ कैश्चित् प्रयाणकैर्गच्छन्, गजेन्द्र इव लीलया । नितम्बं दक्षिणं क्षुद्रहिमाद्रेः प्राप भूपतिः ।। ४६२ ॥ १ अश्वरलप्रतिबिम्बानीव । २ सहोदराः । ३ बन्दिनाम् । ४ अस्मभूमिदुर्गस्य । ५ समर्थः । ६ अज्ञानापराधम् । ७ सञ्जीवनौषधरुपम् । ८ कान्तिविशालम् ।
भरतस्य दिग्विजयः ।
।।२१२ ॥