________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व चतुर्थः सर्गः श्रीऋषभस्वामिचरितम् ।
॥२१३ ॥
तस्मिंश्च भूर्जतगरदेवदारुवनाकुले ।न्यधान्नरेन्द्रः शिबिरं, महेन्द्र इव पाण्डके ॥ ४६३ ॥ उद्दिश्य क्षुद्रहिमवत्कुमारं तत्र चाऽऽर्षभिः । चक्रेऽष्टमं कार्यसिद्धेस्तपो मङ्गलमादिमम् ॥ ४६४ ॥ ततश्चाऽष्टमभक्तकान्ते, निशान्त इव भास्करः । रथारुढो महातेजा, निर्ययौ शिबिरोदधेः ॥ ४६५ ॥ वेगेन गत्वा हिमवत्पर्वतं त्रिरताडयत् । साटोपो रथशीर्षेण, शीर्षण्यः पृथिवीभुजाम् ॥ ४६६ ॥ हिमाचलकुमाराय, निजनामाङ्कितं शरम् । विससर्जाऽथ भूनाथो, वैशाखस्थानकस्थितः ।। ४६७ ॥ द्वासप्तति योजनानि, विहायसा विहङ्गवत् । शरः स गत्वा हिमवत्कुमारस्य पुरोऽऽपतत् ॥ ४६८ ॥ स समालोक्य तं बाणमारां व्योल इव द्विपः । कोपादजनि तत्कालं, लोहितायितलोचनः ।। ४६९ ॥ स करेण गृहीत्वेषु, तत्र नामाऽक्षराणि च । दृष्ट्वा शमं ययौ दीप, इव पन्नगदर्शनात् ।। ४७० ॥ प्रधानपुरुषेणेव, राज्ञस्तेनेषुणा सह । उपायनान्युपादाय, स ययौ भरतेश्वरम् ॥ ४७१ ।। उक्त्वा जयजयेत्युच्चरन्तरिक्षस्थितोऽथ सः । आदौ भूपाय तं काण्डं, काण्डकार इवाऽऽर्पयत् ।। ४७२ ।। सोऽदाद् देवद्रुसुमनोमालां गोशीर्षचन्दनम् । सर्वोषधीहूंदाम्मश्च, राज्ञे सारं हि तस्य तत् ॥ ४७३ ।। कटकान् बाहुरक्षांश्च, देवदूष्यांशुकानि च । ददौ नरपतेर्दण्डे, प्राभृतच्छद्मनाऽथ सः ॥ ४७४ ॥ स्वामिन्नुत्तरदिक्प्रान्ते, तवाऽऽयुक्ते इवाऽस्म्यहम् । इत्युक्त्वा विरतो राज्ञा, स सत्कृत्य व्यसृज्यत ।। ४७५ ॥ अद्रेस्तस्य प्रस्थमिव, सह प्रस्थितमुच्चकैः । स वालयामास रथं, मनोरथमिव द्विषाम् ॥४७६ ॥
भरतस्य दिग्विजयः ।
॥२१३ ॥
१ पाण्डके वने ।२ प्रातःकाले ।३ अग्रणीः । ४ अडशम् । ५ दुष्टगजः ।६ बाणकारकः ।७ कल्पवृक्षपुष्पमालाम् । ८ उपायनमिषेण ।९ मृत्यः ।