________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व चतुर्थः सर्गः श्रीऋषभस्वामिचरितम् ।
॥२११ ॥
चर्मरत्ने च सुक्षेत्र, इवोप्तानि दिवामुखे । सायं धान्यान्यजायन्त गृहिरत्नप्रभावतः ॥ ४३४ ॥ प्रातरुप्ताश्च कूष्माण्डपालक्यामूलकादयः । दिनान्ते निरपद्यन्त, प्रासादा ऐन्दवा इव ।। ४३५ ।। उप्ता दिनमुखे चूतकदल्याद्याः फलद्रुमाः । दिवान्तेऽपि फलन्ति स्म, प्रारम्भा महतामिव ।। ४३६ ।। धान्यशाकफलान्येतान्यभुक्त मुदितो जनः । उद्यानकेलिगतवन्नाबुद्ध कटकश्रमम् ॥ ४३७ ॥ चर्मरत्नच्छत्ररत्नमध्ये मध्यजगत्पतिः । प्रासादस्थ इव स्वस्थोऽवतस्थे सपरिच्छदः ।। ४३८ ।। सप्ताऽभूवन्नहोरात्राण्यश्रान्तं तत्र वर्षताम् । तेषां नागकुमाराणां, तदा कल्पान्तकालवत् ।। ४३९ ।। पापाः केऽमी ममेदृक्षोपसर्ग कर्तुमुद्यताः ? । इति भावं नरेन्द्रस्य, विदित्वाऽथ महौजसः ।। ४४० ।। सदा सन्निहिता यक्षास्ते सहस्राणि षोडश । सन्नद्धा बद्धतूणीरा, अधिज्यीकृतकार्मुकाः ।। ४४१ ।। दिर्धक्षव इव क्रोधानलेन परितः परान्। एत्य मेघमुखान् नागकुमारानेवमब्रुवन् ।। ४४२ ।।
अरे वराकाः ! किं यूयं, हन्त ! निश्चेतना इव । न जानीथ महीनाथं, चक्रिणं भरतेश्वरम् ? ।। ४४३ ॥ विश्वाजय्ये नृपेऽमुष्मिन्नारम्भो वोऽयमापदे । महाशिलोच्चये दन्तप्रहारो दन्तिनामिव ।। ४४४ ।। एवं सत्यप्यपयात, त्वरितं मत्कुणा इव । अष्टपूर्वो भावी वोऽपमृत्युर्बाढमन्यथा ।। ४४५ ।। इत्याकाऽऽकुला मेघबल मेघमुखाः सुराः । संजहुरिन्द्रजालज्ञा, इन्द्रजालमिव क्षणात् ।। ४४६ ॥ ययुः किरातांस्ते मेघमुखास्तच्चाऽऽचचक्षिरे । भरतं शरणं गत्वाऽऽश्रयध्वमिति चाऽऽदिशन् । ४४७ ॥ ततस्तद्वचनान्म्लेच्छा, भग्नेच्छा भरतेश्वरम् । शरण्यं शरणायेयुरनन्यशरणास्तदा ।। ४४८ ।। १ कूष्माण्ड: “कोलु' इति भाषायाम् । २ सैन्यश्रमम् । ३ सपरिवारः । ४ दग्धुमिच्छवः ।
भरतस्य दिग्विजयः ।
॥२११ ॥