________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व चतुर्थः सर्गः श्रीऋषभस्वामिचरितम् ।
॥२१०॥
-RSSRAHARASHRSHAHARAS
ते तस्थुरुपरि मापस्कन्धावारस्य तत्क्षणम् । चूर्णनाय तत्प्रमाणोद्यतवज्रशिलोपमाः ॥ ४२१ ।। अयोग्रैरिव नाराचैरिव दण्डैरिवाऽथ ते । धाराभिरम्भसां तत्र, प्रावर्त्तन्त प्रवर्षितुम् ।। ४२२ ॥ मेघाम्भसा पूर्यमाणे, समन्तादपि भूतले । अनाव्यन्त रथास्तत्राऽनक्रायन्त गजादयः ॥ ४२३ ॥ क्वाऽप्यगच्छदिवाऽऽदित्यः, प्रणेशुरिव पर्वताः । तेन मेवान्धकारेण, स्फूर्जता कालरात्रिवत् ॥ ४२४ ॥ एकान्धकारता चैकजलभावश्च भूतले । तदानीं युगपद् युग्मधर्माविव बभूवतुः ॥ ४२५ ॥ अरिष्टवृष्टिमुत्कृष्टयं, प्रेक्ष्य तां चक्रवर्त्यपि । चर्मरत्नं स्वहस्तेन, प्रियभृत्यमिवाऽस्पृशत् ॥ ४२६ ॥ स्पृष्टं तच्चक्रिहस्तेन, चर्मरत्नमवर्द्धत । योजनानि द्वादशोदपवनेनेव वारिदः ।। ४२७ ।। तस्मिन् जलस्योपरिस्थे, घनाब्धेरिव भूतले । चर्मरत्ने समारुह्य, तस्थौ राजा ससैनिकः ।। ४२८ ।। मण्डितं नवनवत्या, सहस्रैरतिचारुभिः । चामीकरशलाकाभिः, क्षीराब्धिमिव विद्रुमैः ॥ ४२९ ।। व्रणग्रन्थिविहीनेन, सरलत्वैकशालिना । नालेन नलिनमिव, स्वर्णदण्डेन शोभितम् ।। ४३० ॥ तोयातपमरुद्रेणुत्राणक्षममिलापतिः । पस्पर्श पाणिना छत्र, चर्मवद् ववृधे च तत् ॥ ४३१ ॥
॥त्रिभिर्विशेषकम् ॥ छत्रदण्डस्योपरि च, ध्वान्तध्वंसकृते नृपः । तेजसाऽतिनभोरत्नं, मणिरत्नं न्यवेशयत् ।। ४३२ ।। तरदण्डमिवाऽराजत्, सम्पुटं च्छत्रचर्मणोः । ततः प्रभृति लोकेऽभूद्, ब्रह्माण्डमिति कल्पना ।। ४३३ ।। १ लोहाग्रैः । २ नौवदाचरणमकुर्वत । ३ नक्रवदाचरणमकुर्वत । ४ उत्तरपवनेन । ५ प्रवालैः । ६ अन्धकारनाशार्थम् । ७ अतिक्रान्तसूर्यम् ।
भरतस्य दिग्विजयः ।
॥२१०॥