________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ २०९ ॥
स्वमप्यसंस्तुतमिव, प्रत्यैक्षन्त न केचन । आत्मप्राणान् गृहीत्वा तु ययुर्लेंच्छा दिशोदिशम् ।। ४०६ ।। पर्यस्तास्ते सुषेणेनाऽम्भः पूरेण द्रुमा इव । निःस्थामानो योजनानि, भूयांसि व्यपचक्रमुः ।। ४०७ ।। ते वायसा इवैकत्र, सम्भूयाऽऽलोच्य च क्षणम् । आतुरा मातरमिव ययुः सिन्धुं महानदीम् ॥ ४०८ ॥ तस्याश्च सैकते कृत्वा, संस्तरान् सिकतोत्करैः । ते सम्भूयोपविविशुरपस्नानोद्यता इव ।। ४०९ ॥ नग्मा उत्तानका मेघमुखान् स्वकुलदेवताः । चित्ते नागकुमारांस्ते, कृत्वाऽष्टमतपो व्यधुः ॥ ४१० ॥ तदष्टमतपः प्रान्ते, चक्रितेजोभयादिव । तेषां नागकुमाराणामासनानि चकम्पिरे ।। ४११ ॥ ते दृष्ट्वाऽवधिना तांस्तु, म्लेच्छानार्त्तास्तथास्थितान् । अर्त्या पितृवदभ्येत्य, प्रादुरासंस्तदग्रतः ॥ ४१२ ॥ ब्रूत भो ! भवतामर्थः कोऽधुना मनसीप्सितः ? । अन्तरिक्षस्थिता एवं, ते किरातान् बभाषिरे ।। ४१३ ।। दृष्ट्वा मेघमुखान्नागकुमारान्नभसि स्थितान् । तेऽबध्नन्नञ्जलीन् भालेष्वत्यन्ततृषिता इव ।। ४१४ ॥ अस्मद्देशमनाक्रान्तपूर्वं कोऽप्यागतोऽधुना । यथा स गच्छति तथा, कुरुतेत्यूचिरे च ते ।। ४१५ ।। ऊचुर्मेघमुखाश्चैवं, भरतश्चक्रवर्त्ययम् । देवासुरनरेन्द्राणामप्यजय्यो महेन्द्रवत् ।। ४१६ ।। मन्त्रतन्त्रविषास्त्राग्निविद्यादीनामगोचरः । गिरिग्रोवेव टङ्कानीं, चक्रवर्त्ती महीतले ।। ४१७ ॥ युष्माकमनुरोधेन, वयमस्य तथाऽपि हि । उपसर्गं करिष्याम, इत्युक्त्वा ते तिरोऽभवन् ।। ४१८ ॥ अम्भोधय इवोत्पत्य, भुवोऽम्भोदा नभस्तलम् । व्याप्नुवन्तोऽञ्जनश्यामरुचः, सञ्जज्ञिरे क्षणात् ॥ ४१९ ॥ तेऽतर्जयन्निव तडित्तैर्जन्या चक्रभृच्चमूम् । ऊर्जितैर्गर्जितरवैश्चाऽऽचुक्रुशुरिवाऽसकृत् ॥ ४२० ॥ १ अपरिचितम् । २ निर्बलाः । ३ मृतस्नाने उद्यता इव । ४ पूर्वमनाक्रान्तम् । ५ गिरिपाषाणः । ६ पाषाणभेदनास्त्राणाम् । ७ विद्युद्रूपतर्जन्यङ्गुल्या । • भाषायाम् 'रेताळ जमीन पर'
प्रथमं पर्व
चतुर्थः
सर्गः
श्रीऋषभ
स्वामि
चरितम् ।
भरतस्य दिग्विजयः ।
॥ २०९ ॥