________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ २०८ ॥
कर्दमोदकपाषाणशर्करागर्त्तदुःषमात् । महास्थलीगिरिदरीदुर्गाच्चोत्तारणक्षमम् ।। ३९३ ॥ ईषद्भूलग्नपादत्वात्, सञ्चरन्तमिवाऽम्बरे । मेधाविनं विनीतं च पञ्चधाराजितश्रमम् ।। ३९४ ।। कमलामोदनिःश्वासं, कमलापीडमाख्यया । साक्षाज्जयमिवाऽऽ रोहद्, वाजिराजं चमूपतिः ।। ३९५ ।। ।। चतुर्दशभिः कुलकम् ।।
पञ्चाशदङ्गुलं दैर्घ्य, विस्तारे षोडशाङ्गुलम् । अर्द्धाहुलं च बाहल्ये, स्वर्णरत्नमयत्सरु ।। ३९६ ॥ अपास्तकोशं निर्मुक्तनिर्मोकमिव पन्नगम् । तीक्ष्णधारमतिदृढं, द्वैतीयीकमिवाऽशनिम् ।। ३९७ । विचित्रपुष्करश्रेणिव्यक्तवर्णविराजितम् । खड्गरत्नं स जग्राह, द्विषां पत्रमिवाऽन्तकः ।। ३९८ । ॥ त्रिभिर्विशेषकम् ॥
जातपक्ष इवाऽहीन्द्रः, सन्नद्ध इव केसरी । बभूव खड्गरत्नेन, स तेन पृतनापतिः ।। ३९९ ॥ तडिद्दण्ड इवाऽऽकाशे, तरलं भ्रमयन्नसिम् । वाजिनं प्रेरयामास, सांयुगीनं चमूपतिः ॥ ४०० ॥ जलकान्तो जलमिव, स्फाटयन् विद्विषद्बलम् । विवेश वाजिना तेन, सुषेणः समराङ्गणम् ।। ४०१ ।। सुषेणेनिघ्नति सुर्द्विषः केऽपि मृगा इव । नेत्रे निमील्य केऽप्यस्थुः पतित्वा शशका इव ।। ४०२ ॥ ऊर्ध्वंभूयाऽपरे तस्थुः, खेदिता रोहिता इव । आरोहन् विषमस्थानं, केऽपि शाखामृगा इव ।। ४०३ ॥ केषाञ्चित् पेतुरस्त्राणि, पत्राणीव महीरुहाम् । आतपत्राणि केषाञ्चिद्, यशांसीव समन्ततः ॥ ४०४ ॥ केषाञ्चित् तुरगास्तस्थुर्मन्त्रस्तब्धा इवोरगाः । केषाञ्चिदप्यभज्यन्त, स्यन्दना मृन्मया इव ।। ४०५ ।। १ खड्गमुष्टिः । चोद्यामास । नोदयामास । २ रणकुशलम् । ३ कपयः ।
24646
प्रथमं पर्व
चतुर्थः सर्गः श्रीऋषभस्वामिचरितम् ।
भरतस्य दिग्विजयः ।
।। २०८ ।।