SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ प्रथमं पर्व त्रिषष्टिशलाकापुरुषचरिते चतुर्थः सर्गः श्रीऋषभस्वामिचरितम् । ॥२०७॥ म। चतुलनाखरं, वृत्त बालामभिर्युतम अनाथामिव तां सेना, सेनानाथः पराजिताम् । पश्यन् सुषेणः कोपेनाऽनोदि राज्ञ इवाऽऽज्ञया ।।३७८ ॥ आताम्रनयनस्ताम्रवदनः स क्षणादभूत् । दुरीक्षो नररुपेण, वैश्वानर इव स्वयम् ॥ ३७९ ।। रक्षोराज इवाऽशेषान्, ग्रसितुं परसैनिकान् । स्वयं संवर्मयामास, सुषेणः पृतनापतिः ।।३८० ॥ उत्साहोच्छ्रसदङ्गत्वादतिगाढत्वमागतम् । सौवर्ण वर्म सेनान्यस्त्वगन्तरमिवाऽशुभत् ॥ ३८१ ॥ अशीत्यङ्गुलमुच्छ्रेित्यामेकन्यूनशताङ्गुलम् । परिणाहे दैर्घ्य पुनरष्टोत्तरशताङ्गुलम् ॥ ३८२ ॥ द्वात्रिंशदङ्गुलोत्सेधं, सततोन्नतमौलिकम् । चतुरडुलकर्णं च, विंशत्यकुलबाहुकम् ।। ३८३ ।। षोडशाङ्गुलजचाकं, चतुरहुलजानुकम् । चतुरडलोच्चखुरं, वृत्तं वलितमध्यकम् ।। ३८४ ।। विशालसङ्गत्तनतप्रसन्नपृष्ठशालिनम् । दुकूलतन्तुभिरिव, कोमलैर्लोमभिर्युतम् ।। ३८५ ।। प्रशस्तद्वादशावर्त, शुद्धलक्षणलक्षितम् । सुजातयौवनप्राप्तशुकपिच्छहरिच्छविम् ॥ ३८६ ।। कशानिपातरहितं, सादिचित्तानुगामिनम् । रत्नस्वर्णवल्गाव्याजाद्, दोभ्या श्लिष्टमिव श्रिया ।। ३८७ ॥ काञ्चनैः किङ्किणीजालैः, क्वणद्भिर्मधुरस्वरम् । अन्तर्ध्वनन्मधुकराम्भोजस्रग्भिरिवाऽर्चितम् ।।३८८ ॥ पञ्चवर्णमणीमिश्रस्वर्णालङ्करणांशुभिः । रुपाद्वैतपताकाङ्कमिव ब्रिभाणमाननम् ।। ३८९ ।। काञ्चनाम्भोजतिलकं, भौमात्तिमिवाऽम्बरम् । चामरोत्तंसनिभतोऽन्यौ कर्णाविव बिभ्रतम् ।। ३९० ॥ वज्रिणो वाहनमिवाऽऽकृष्टं पुण्येन चक्रिणः । मुञ्चन्तं चरणौ वक्रौ, पतन्तौ लालकादिव ॥३९१ ॥ सुपर्णमन्यमूर्येव, मूर्तिमन्तमिवाऽनिलम् । क्षणेन योजनशतोलबने दृष्टविक्रमम् ।। ३९२॥ १ अग्निः ।२ औन्नत्ये ।३ विशालतायाम् । भरतस्य दिग्विजयः । ॥२०७॥
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy