________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ २०६ ॥
केऽपि सङ्गदुर्वारांस्तरवारीन् भयङ्करान् । कोशादाचकृषुर्लीलार्तल्पकल्पान् जयश्रियः ।। ३६३ ।। केचिदुद्दधिरे दण्डान्, दण्डपाणेरिवाऽनुजाः । कुन्ताननर्त्तयन् केऽपि, केतूनिव नभस्तले ।। ३६४ ॥ शूलान्यधारयन् केऽपि, शूलाकर्त्तुमिव द्विषः । प्रीतये प्रेतैराजस्याऽऽमन्त्रितस्य रणोत्सवे ॥ ३६५ ॥ विद्विषद्वर्तिकाचक्रप्राणसर्वस्वतस्करान् । अयःशल्यान् निदधिरे, श्येनानिव करेऽपरे ।। ३६६ ।। पिपातयिषव इव, नभस्तस्तारकोत्करम् । केचिदाददिरे सद्यो, मुद्गरानुद्धरैः करैः ।। ३६७ ।। विविधान्यायुधान्यन्येऽप्यधुरायोधनेच्छ्या । विना शस्त्रं न कोऽप्यासीद्, विना विषमिवोरगः ।। ३६८ ॥ उद्दिश्य भरतानीकमनीकरसलालसाः । अभ्यधावन्नेककालमेकात्मान इवाऽथ ते ।। ३६९ ।। भरतस्याऽग्रसैन्येन, सार्द्धं युयुधिरे रयात् । म्लेच्छाः शस्त्राणि वर्षन्तोऽरिष्टथेब्दाः कर्रकानिव ॥ ३७० ।। भुवो मध्यादिवोत्पेतुर्दिङ्मुखेभ्य इवाऽपतन् । पेतुश्च व्योमत इव, तेभ्यः शस्त्राणि सर्वतः ।। ३७१ ॥ भरतेशाग्रसेनायां, किरातानां शिलीमुखैः । न तदासीन्न यद् भिन्नं, दुर्जनानामिवोक्तिभिः ॥ ३७२ ॥ म्लेच्छसैन्येन पर्यस्ता, भरतेशाग्रसादिनः । नदीमुखोर्मय इवाऽवलन् वारिधिवेलया ॥ ३७३ ॥ चक्रिणः करिणस्त्रे, रसन्तो विरसस्वरम् । निम्नत्सु म्लेच्छसिंहेषु, शिलीमुखनखैः शितैः ।। ३७४ ॥ ताडिता म्लेच्छसुभटैश्चण्डैर्दण्डायुधैर्मुहुः । भूपतेः पत्तय पेतुर्लुलन्तः कन्दुका इव ।। ३७५ ।। स्वच्छन्दं म्लेच्छसैन्येन, नृपाग्रध्वजिनीरथाः । अभज्यन्त गदाघातैर्वज्रघातैरिवाऽद्रयः ।। ३७६ ।। तिमिङ्गिलैरिव म्लेच्छैस्तस्मिन् समरसागरे । ग्रस्तत्रस्तं नृपचमूनक्रचक्रमजायत ।। ३७७ ।। १ खड्गान् । २ लीलाशय्यासदृशान् । ३ यमस्य । ४ लोहशल्यान् । ५ उत्पातमेघाः । ६ वर्षोपलान् । ७ महामत्स्यैः ।
प्रथमं पर्व
चतुर्थः सर्गः
श्रीऋषभ
स्वामिचरितम् ।
भरतस्य
दिग्विजयः ।
॥ २०६ ॥