________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थः
सर्गः
। २०५ ॥
श्रीऋषभस्वामिचरितम् ।
अथ सौवर्णसन्नाहपरशुप्रासरश्मिभिः । सहस्ररश्मि कुर्वाणं, कोटिरश्मिमिवाऽम्बरे ।। ३४८ ।। दन्तुराम्बरमुद्दण्डैर्दण्डकोदण्डमुद्गरैः । ध्वजस्थव्याघ्रसिंहाहित्रस्ताम्बरचरीगणम् ॥ ३४९ ॥ महाद्विपघटामेघान्धकारितदिगाननम् । मयाननपरिस्पर्द्धिरथाग्रमकराननम् ।। ३५० ।। खुराघातैस्तुरङ्गाणां, पाटयन्तमिव क्षितिम् । जयतूर्यरवै|रैः, स्फोटयन्तमिदाऽम्बरम् ।। ३५१ ।। भौमेनोऽग्रेसरेणाऽर्कमिव चक्रेण भीषणम् । आयान्तं भरतं दृष्ट्वा, किराताश्चुकुपुस्तराम् ।। ।। पञ्चभिः कुलकम् ।। मिथः सम्भूय ते क्रूरैग्रहमैत्रीविडम्बिनः । अवनी संजिहीर्षन्त, इव सक्रोधमभ्यधुः ॥३५३ ॥ अप्रार्थितप्रार्थयिता, कोऽयं बाल इवाऽल्पधीः । पृथग्जन इव श्रीहीधृतिकीर्तिविवर्जितः ॥३५४ ।। परिक्षीणपुण्यचतुर्दशीको हीनलक्षणः । अस्मद्विषयमायाति, मृगः सिंहगुहामिव ? ।। ३५५ ।। तदेनमुद्धताकारं, प्रसरन्तमपि क्षणात् । महावाता इवाऽम्भोदं, प्रक्षिपामो दिशोदिशि ।। ३५६ ।। इत्युच्चैर्विब्रुवाणास्ते, सम्भूय भरतं प्रति । उदतिष्ठन्त युद्धाय, प्रत्यब्दं शरभा इव ।।३५७ ॥ अभेद्यान् कूर्मपृष्ठास्थिशकलैरिव निर्मितान् । सन्नाहान् धारयामासुः, किरातपतयोऽथ ते ॥ ३५८ ।। दिशन्ति मूर्नामुत्केशनिशाचरशिरःश्रियम् । ऋक्षादिकेशच्छन्नानि, शिरस्त्राणानि ते दधुः ।। ३५९ ॥ उत्साहेनोच्छ्रसबेहतया सन्नाहजालिकाः । त्रुटन्ति स्म प्रतिमुहुरहो ! तेषां रणोत्कता ।। ३६० ॥ शिरोभिरुत्कचैस्तेषां, शिरस्त्राणान्युदासिरे । त्राता किमपरोऽस्माकमित्यमर्षवशादिव ।। ३६१ ।। केचित् कुपितकीनाशभ्रकुटीकुटिलान्यधुः । धषि शृङ्गघटितान्यधिज्यीकृत्य लीलया ॥३६२ ।। १ खेचरीगणम् । २ मङ्गलग्रहेण । ३ रविमङ्गलशनिराहुकेतुरुपाः । ४ अष्टपदः । ५ भल्लूकादि । ६ रणोत्कण्ठता ।
भरतस्य दिग्विजयः ।
॥२०५ ॥