________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थः
सर्गः श्रीऋषभस्वामि
॥२०४ ।।
चरितम् ।
वैताढ्यकन्दरादाढ्यकुटीग दिवाऽक्षताः । नादयन्तः स्वनादैा, निरीयुः स्यन्दना अपि ॥३३३ ॥ पत्तयोऽपि विनिष्पेतुर्महौजस्का गुहामुखात् । सद्यः स्फुटितवल्मीकवदनादिव पन्नगाः ।। ३३४ ।। पञ्चाशद्योजनायामा, तामतिक्रम्य कन्दराम् । उदग्भरतवर्षाद्धं, विजेतुं प्राविशन्नृपः ।। ३३५ ।। किरातास्तत्र निवसन्त्यापाता नाम दुर्मदाः । आढ्या महौजसो दीप्ता, भूमिष्ठा इव दानवाः ।। ३३६ ।। तेऽविच्छिन्नमहाहHशयनासनवाहनाः । अनल्पस्वर्णरजताः, कुबेरस्येव गोत्रिणः ।। ३३७ ॥ बहुजीवधनास्ते च, बहुदासपरिच्छदाः । अजाताभिभवाः प्रायः, सुरोधानद्रुमा इव ।।३३८ ।। अनेकसम्परायेषु, नियूंढबलशक्तयः । महाशकटभारेषु, महोक्षा इव ते सदा ।। ३३९ ।। प्रसह्य भरताधीशे, कृतान्त इव सर्पति । अनिष्टशसिनस्तेषामुत्पाता अभवन्निति ॥ ३४०।। चलद्भरतसैन्यप्राग्भारमारैरिवाऽदिता । प्रकम्पितगृहोद्याना, प्रचकम्पे वसुन्धरा ।। ३४१ ।। दिगन्तव्यापिभिः प्रौढैः, प्रतापैरिव चक्रिणः । अजायन्त दिशा दाहा, दावानलसहोदराः ॥३४२ ॥ क्षरता रजसाऽत्यन्तमनालोकनभाजनम् । बभूवुः ककुभः सर्वाः, पुष्पवत्य इव स्त्रियः ॥ ३४३ ।। दुःश्रवक्रूरनिर्घोषा, आस्फलन्तः परस्परम् । पयोनिधाविव ग्राहा, दुर्वाता विजजृम्भिरे ।। ३४४ ।। निपेतुर्गगनादुल्का, उल्मुकानीव सर्वतः । समस्तम्लेच्छव्याघ्राणां, प्रक्षोभस्य निबन्धनम् ।। ३४५ ।। अभवन् वज्रनिर्घाता, महानिर्घोषभीषणाः । क्रुद्धोत्थितकृतान्तस्य, हस्तघाता इव क्षितौ ॥३४६ ॥ स्थाने स्थाने काकचिल्लमण्डलानि नभस्तले । प्रेमुः समुपसर्पन्त्याछत्राणीवाऽन्तकश्रियः ॥३४७ ॥ १ धनाढ्यगृहगर्माद् इव । २ क्षतरहिताः । ३ भूमिस्थिताः । ४ अनेकयुद्धेषु । ५ रजस्वलाः । ६ मत्स्यविशेषाः ।
भरतस्य दिग्विजयः ।
||२०४ ।।