________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व चतुर्थः
सर्गः श्रीऋषभस्वामि
॥२०३॥
चरितम् ।
तुम्बीफलमिवैकस्यामुन्मज्जति शिलाऽपि हि । शिलेव तुम्बीफलमप्यन्यस्यां तु निमज्जति ।। ३१८ ॥ तमिस्रायाः पूर्वभित्तेर्निर्गते ते तु गच्छतः । भित्तेः प्रतीच्या मध्येन, सिन्धौ सङ्गममाप्नुतः ।। ३१९ ।। बबन्ध वर्द्धकिः पद्यामनवद्यां ततस्तयोः । वैताढ्याद्रिकुमारस्य, रहःशय्यामिवाऽऽयताम् ।।३२० ॥ पद्या क्षणेन सा जज्ञे, चक्रभृद्वर्द्धकः खलु । गेहाकारद्रुमेभ्यो हि, कालक्षेपो न वास्तुनः ।।३२१ ।। भूयोभिरपि पाषाणैः, कृता सुश्लिष्टसन्धिभिः । रेजे तावत्प्रमाणैकपाषाणघटितेव सा ।। ३२२ ।। सा पाणिवत् समतला, वज्रवच्च द्रढीयसी । गुहाद्वारकपाटाभ्यामिवाऽलक्ष्यत निर्मिता ।। ३२३ ।। ससैन्योऽपि सुखेनैव, निम्नगे दुस्तरे अपि । समर्थः पदविधिवच्चक्रवर्तुत्ततार ते ।। ३२४ ।। गुहाया उत्तरं द्वारमुत्तराशामुखोपमम् । सह चम्वा क्रमाद् गच्छन्नासदन्मेदिनीपतिः ।। ३२५ ।। आकाघातनिर्घोषं, याम्यद्वारकपाटयोः । भीताविवोज्जघटाते, तत्कपाटौ स्वयं क्षणात् ।। ३२६ ।। तदा विघटमानौ तौ, सरत्सरितिशब्दतः । सरणप्रेरणमिव, चक्रिसैन्यस्य चक्रतुः ।। ३२७ ।। गुहायाः पार्श्वभित्तिभ्यां, तथा संश्लिष्य संस्थितौ । अलक्ष्येतां यथा तत्राऽभूतपूर्वाविवारी ।। ३२८ ।। अथ प्रथमतश्चक्रं, पुरोगं चक्रवर्तिनः । निर्जगाम गुहामध्यादभ्रमध्यादिवाऽर्यमा ।। ३२९ ॥ महीयसा महीनाथो, गुहाद्वारेण तेन च । बलीन्द्र इव पातालविवरेण विनिर्ययौ ।। ३३०॥ तस्या गुहाया निःशङ्कलीलागमनशालिनः । निर्ययुर्दन्तिनो विन्ध्यसानुमद्रादिव ।। ३३१ ॥ गुहातो वल्गु वल्गन्तो, निर्गच्छन्ति स्म वाजिनः । अम्मोधिमध्यनिर्गच्छदर्कवाजिविडम्बिनः ।। ३३२ ।। १ एतदाख्यकल्पवृक्षेभ्यः ।२ कपाटौ ।
भरतस्य दिग्विजयः ।
।।२०३ ॥