________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व चतुर्थः सर्गः श्रीऋषभस्वामिचरितम् ।
।। २००॥
इति निष्कुटमाक्रम्य, पञ्चानन इवाऽटवीम् । समोया कच्छदेशस्य, तस्थौ सुस्थश्चमूपतिः ।। २७५ ॥ म्लेच्छभूपतयस्तत्र, विचित्रोपायनैः समम् । सेनापतिं समापेतुर्भक्त्या पतिमिव स्त्रियः ।। २७६ ।। रत्लस्वर्णोत्करान् केचित्, स्वर्णशैलतटोपमान् । केचिच्चलितविन्ध्याद्रिकल्पान् करटिनो ददुः ।। २७७ ।। || केचिद् विश्राणयामासुर्वाजिनोऽत्यैर्कवाजिनः । केचिदञ्जननिष्पन्नान्, रथान् देवरथोपमान् ।। २७८ ।। तत्राऽन्यदपि यत् सारं, तस्मै सर्वेऽपि तद् ददुः । गिरिभ्योऽपि सरित्कृष्टं, रत्नं रत्नाकरे व्रजेत् ।। २७९ ॥ तवाऽऽयुक्ता इवाऽऽदेशकरा वयमतः परम् । स्थास्यामः स्वस्वविषयेष्वित्यूचुस्ते चमूपतिम् ।। २८० ।। महीभुजस्तान् यथार्ह, सत्कृत्य विससर्ज सः । पूर्ववच्च सुखं सिन्धुमुत्ततार तरङ्गिणीम् ।। २८१ ॥ म्लेच्छेभ्य आहृतं सर्वं, तं दण्डं दण्डनायकः । दोहदं कीर्तिवल्लीनां, ढौकयामास चक्रिणे ।। २८२ ।। सत्कृतः कृतिना सोऽथ, प्रसादाच्चक्रवर्त्तिना । विसृष्टश्च प्रहृष्टोऽगान्निजावासं चमूपतिः ।। २८३ ॥ अयोध्यायामिव सुखं, तत्राऽस्थाद् भरतेश्वरः । सिंह प्रयाति यत्राऽपि, तस्यौकः स्वं तदेव हि ।। २८४ ।। अन्येधुराहूय चमूपतिं भूपतिरादिशत् । उद्धाटय तमिस्रायाः, कपाटद्वितयीमिति ।। २८५ ॥ आज्ञां नरपतेर्मालामिवोपादाय मौलिना । अविदूरे तमिस्राया, गत्वा तस्थौ चमूपतिः ।। २८६ ।। कृत्वा मनसि सेनानीः, कृतमालमथाऽमरम् । चक्रेऽष्टमतपः सर्वास्तपोमूला हि सिद्धयः ।।२८७ ॥ सेनापतिरथ स्नातः, श्वेतसंव्यानपक्षभृत् । निर्ययौ स्नानसदनात्, सरसो राजहंसवत् ।। २८८ ।। सौवर्णं धूपदहनं, लीलास्वर्णारविन्दवत् । सुषेणः पाणिना बिभ्रत्, तमिस्राद्वारमासदत् ।। २८९ ।। १ सिंहः । २ गजान् । ३ अतिक्रान्तसूर्याश्वान् । ४ नद्याकुष्टम् ।
भरतस्य दिग्विजयः ।
।। २०० ।।