________________
त्रिषष्टि
शलाका
पुरुषचरित
।। २०१ ।।
तत्र चालोकयामास, कपाटौ प्राणमच्च सः । महान्तः शक्तिमन्तोऽपि प्रथमं साम कुर्वते ॥ २९० ॥ वैताढ्यसञ्चरद्विद्याधरस्त्रीस्तम्भनौषधम् । अष्टाह्निकोत्सवं तत्र, स व्यधत्त महर्द्धिकम् ॥ २९१ ॥ अखण्डैस्तन्दुलैरष्टमङ्गलीं मङ्गलावहाम् । मण्डलं मान्त्रिक इवाऽऽलिलेख पृतनापतिः ।। २९२ ।। वज्रं वज्रधरस्येव, चक्रिणो वैरिसूदनम् । दण्डरत्नमुपादत्त, स्वहस्तेन चमूपतिः ।। २९३ ॥ आजिघांसुरपाक्रामत्, सप्ताष्टानि पदानि सः । मनागपसरत्येव प्रजिहीर्षुर्गजोऽपि हि ।। २९४ ॥ सेनानीस्तेन दण्डेन, त्रिः कपाटावताडयत् । उच्चैस्तरां कन्दरां तामातोद्यमिव नादयन् ।। २९५ ॥ वैताढ्यपृथिवीध्रस्य, विलोचनपुटे इव । बाढमुज्जघटाते ते, कपाटे वज्रनिर्मिते ॥ २९६ ॥ ततो विघटमानौ तौ, कपाटौ दण्डताडनात् । तडत्तडिति कुर्वाणौ, चक्रन्दतुरिवोच्चकैः ।। २९७ ।। उदग्भरतखण्डानां, जयप्रस्थानमङ्गलम् । कपाटोद्घाटनं राज्ञे, सेनानाथो व्यजिज्ञपत् ।। २९८ ॥ हस्तिरत्नं समारुढः प्ररुढप्रौढविक्रमः । अथाऽऽययौ तमिस्रायां, नरेन्द्रश्चन्द्रमा इव ।। २९९ ॥ मूर्द्धस्थेन शिखाबन्धेनेव येन कदाऽपि हि । उपर्सेर्गा न जायन्ते, तिर्यग्नरसुरोद्भवाः ।। ३०० ।। अन्धकारमिवाऽशेषं, येन दुःखं प्रणश्यति । शस्त्रघाता इव रुजः प्रभवन्ति न येन च ॥ ३०१ ॥ नृपो यक्षसहस्रेणाऽधिष्ठितं चतुरङ्गुलम् । उद्द्योतकं भास्करवन्मणिरत्नं तदाददे ।। ३०२ ।।
॥ त्रिभिर्विशेषकम् ॥ दक्षिणे कुम्भिनः कुम्भस्थले सोऽरिनिषूदनः । पूर्णकुम्भ इव स्वर्णपिधानं निदधे च तत् ।। ३०३ ॥ १ सेनापतिः । २ त्रिवारम् । ३ वैताढ्यपर्वतस्य । ४ उपद्रवाः ।
प्रथमं पर्व
चतुर्थः
सर्गः
श्रीऋषभस्वामिचरितम् ।
भरतस्य
दिग्विजयः ।
।। २०१ ।।