________________
त्रिषष्टि
शलाका
पुरुषचरिते
।। १९९ ।।
शोभमानः सितच्छत्रचामरैः सोऽमरोपमः । वारणं प्रेरयामास, चरणाङ्गुष्ठसंज्ञया ।। २६१ ।। समं राज्ञोऽर्द्धसैन्येन, स गत्वा सिन्धुरोधसि । अस्थादुद्धूतरजसा, सेतुबन्धमिवादधत् ।। २६२ ॥ योजनान्येधते स्पृष्टं, यच्च द्वादश यत्र च । प्रातरुप्तानि धान्यानि, निष्पद्यन्ते दिनात्यये ।। २६३ ॥ नंदीनदनदीनाथाम्भःसु यत् तारणक्षमम् । तत् सम्पस्पर्श हस्तेन, चर्मरलं चमूपतिः ॥ २६४ ।। ।। सन्दानितकम् ।। नैसर्गिकप्रभावेन, प्रससार तटद्वयम् । तच्चर्मरत्नं प्रक्षिप्तं, सलिलोपरि तैलवत् ॥ २६५ ॥ सह चम्वा चमूनाथश्चर्मरत्नेन तेन सः । उत्तीर्य पद्ययेवाऽऽपदापगायाः परं तटम् ।। २६६ ।। तं सिसाधयिषुः सर्वं, सिन्धोर्दक्षिणनिष्कुटम् । कल्पान्तपाथोधिरिव, प्रससार चमूपतिः ।। २६७ ।। धनुर्निर्घोषबूत्कारदारुणो रणकौतुकी । लीलयैव पराजिग्ये, स सिंह इव सिंहलान् ।। २६८ ॥ बर्बरानात्मैसाच्चक्रे, मूल्यात्तानिव किङ्करान् । टङ्कणानङ्कयामास, राजाङकेन हयानिव ।। २६९ ।। रत्नाकरमिवानीरं, रत्नमाणिक्यपूरितम् । अजयज्जवनद्वीप, नरद्वीपी स लीलया ॥ २७० ॥ तथा कालमुखास्तेन, जिग्यिरे ते यथाऽभवन् । अभुञ्जाना अपि मुखे, क्षिप्तपञ्चाङ्गुलीदलाः ।। २७१ ।। म्लेच्छा जोनकनामानस्तस्य प्रसरतः सतः । आसन् पराङ्मुखा वायोरिव पादपपल्लवाः ।। २७२ ॥ अपरा अपि वैताढ्यपर्वतोपर्त्यकास्थिताः । म्लेच्छजातीर्विजिग्ये सोऽहिजातीरिव वार्त्तिकः ॥। २७३ ।। प्रौढप्रतापप्रसरः, प्रसरन्ननिवारितम् । आक्रामत् कच्छदेशोर्वी सर्वां दिवमिवाऽर्यमा ॥ २७४ ॥ १ नदीह्रदसमुद्रजलेषु । सचमूकश्च । २ नद्याः । ३ वशीचक्रे । ४ नरव्याघ्रः । ५ पर्वतासन्नभूमिस्थिताः । ६ गारुडिकः ।
प्रथमं पर्व चतुर्थः
सर्गः
श्रीऋषभस्वामिचरितम् ।
भरतस्य
दिग्विजयः ।
।। १९९ ।।