SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते | प्रथम पर्व चतुर्थः सर्गः श्रीऋषभस्वामिचरितम् । ॥१९८॥ सिन्धुसागरवैताव्यसीमानं सिन्धुनिष्कुटम् । दक्षिणं साधयोत्तीर्य, चर्मरत्नेन निम्नगाम् ।। २४९ ।। बदरीवणवत् तत्र, म्लेच्छानायुधयष्टिभिः । ताडयित्वा चित्ररत्नसर्वस्वफलमाहरेः ।। २५० ॥ ततः स सेनाधिपतिभृगाधिपतिरोजसा । तेजसा तेजसांनाथो, धिषणो धिषणागुणैः ।। २५१ ॥ निम्नानां निष्कुटानां च, जलस्थलभुवामपि । अन्येषामपि दुर्गागां, तज्जन्मेव प्रचारवित् ।। २५२ ॥ सम्पूर्णलक्षणः सर्वम्लेच्छभाषाविचक्षणः । शिरसा शासनं भर्तुस्तत्प्रसादमिवाऽऽददे ।। २५३ ॥ ॥त्रिभिर्विशेषकम् ॥ प्रणम्य स्वामिनं गत्वा, स्वावासे निदिदेश सः । सामन्तादीन् प्रयाणाय, प्रतिच्छन्दानिवाऽऽत्मनः ॥२५४ ।। अथ स्नात्वा कृतबलिर्महाय॑स्वल्पभूषणः । संवर्मितः कृतप्रायश्चित्तकौतुकमङ्गलः ।। २५५ ।। जयश्रियाऽऽलिङ्गनाय, प्रक्षिप्तामिव दोलताम् । रत्नौवेयकं दिव्यं, धारयन् कण्ठकन्दले ।। २५६ ॥ शोभितश्चिह्नपट्टेन, पट्टद्विप इवोच्चकैः । गृहीतास्त्रः कटौ बिभ्रन्मूर्त्ता शक्तिमिव क्षुरीम् ।। २५७ ।। बिभ्राणः स्वर्णतूणीरावतुच्छौ सरलाकृती । पृष्ठतोऽपि रणं कर्तु, दोर्दण्डाविव वैक्रियौ ।।२५८ ॥ गणनेतृदण्डनेतृश्रेष्ठिभिः सार्थवाहिभिः । सन्धिपालचराद्यैश्च, युवराज इवाऽऽवृतः ।। २५९ ॥ आरुरोह स सेनानीर्गजरत्नं नगोन्नतम् । निश्चलानासनस्तेनाऽऽसनेन संहभूरिव ।। २६० ।। ॥षभिः कुलकम् ।। १ सूर्यः । २ बृहस्पतिः । ३ बुद्धिगुणैः । ४ मार्गवेत्ता । ५ प्रतिबिम्बरुपान् । ६ महामूल्यस्वल्पाभरणः । ७ रलमय ग्रीवाभरणम् । ८ प्रधानहस्ती । ९ पर्वतोन्नतम् । १० सहजातः इव । भरतस्य दिग्विजय । ॥१९८ ।।
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy