________________
त्रिषष्टि
शलाकापुरुषचरिते
।। १९७ ।।
तस्य प्रत्यग्रहीत् तच्च, सर्वं सर्वसहापतिः । अलुब्धा अपि गृह्णन्ति, भृत्यानुग्रहहेतुना ।। २३४ ॥ नृपस्तमथ सम्भाष्य, विससर्ज सगौरवम् । महान्तो नाऽवजानन्ति, नृमात्रमपि संश्रितम् ।। २३५ ।। चकाराऽष्टमभक्तान्ते, पारणं पृथिवीपतिः । चक्रे च वैताढ्यगिरिदेवस्याऽष्टाह्निकोत्सवम् ॥ २३६ ॥ गुहां तमिस्रामुद्दिश्य, चक्ररनं ततोऽचलत् । राजाऽप्यगात् तस्य पदान्वेषकस्येव पृष्ठतः ॥ २३७ ॥ गत्वा तमिस्रासविधे, सैन्यान्यावासयन्नृपः । विद्याधरपुराणीवाऽवतीर्णानि गिरेरधः ।। २३८ ॥ कृत्वा मनसि भूपालः कृतमालमथाऽमरम् । चक्रेऽष्टमतपोऽचालीत्, तस्य देवस्य चाऽऽसनम् ।। २३९ ।। सोऽज्ञासीदवधिज्ञानादागतं चक्रवर्तिनम् । आजगामाऽर्चितुं तं च, चिराद् गुरुमिवाऽतिथिम् ॥ २४० ॥ स्वामिन् ! तमिस्राद्वारेऽस्मिन्, द्वारपाल इवाऽस्मि ते । इति ब्रुवन् महीभर्तुः, स सेवां प्रत्यपद्यत । २४१ ॥ स्त्रीरत्नयोग्यं तिलकचतुर्दशमनुत्तमम् । दिव्याभरणसम्भारं विततार स भूभुजे ॥ २४२ ॥ तद्योग्यानि च माल्यानि, दिव्यानि वसनानि च । सोऽदाद् राज्ञे धारितानि, प्राक् तदर्थमिवाऽऽदरात् ॥ २४३ ॥ राजा तदाददे सर्वं कृतार्था अपि भूभुजः । न त्यजन्ति दिशो दण्डं चिह्न दिग्विजयश्रियः ॥। २४४ ।। प्रसादेनाऽतिमहता, सम्भाष्य विससर्ज तम् । शिष्यमध्ययनप्रान्त, उपाध्याय इवाऽडेर्षभिः ।। २४५ ।। भून्यस्तभाजनैरग्रे, भुञ्जानै राजकुञ्जरैः । स्वांशैरिव पृथग्भूतैः समं चक्रे स पारणम् ।। २४६ ।। सोऽकरोत् कृतमालस्य, देवस्याऽष्यहिकोत्सवम् । प्रभवः प्रणिपातेन गृहीताः किं न कुर्वते ? ॥ २४७ ॥ सुषेणाभिधमन्येद्युः, सेनापतिमिलापतिः । समाहूय हेरिरिव, नैगमेषिणमादिशत् ।। २४८ ॥ १ पृथ्वीपतिः । २ अवज्ञां कुर्वन्ति । भक्तस्य खंता ॥ ३ भरतः । ४ भूमिस्थापितपात्रैः । ५ इन्द्रः ।
प्रथमं पर्व चतुर्थः
:
श्रीऋषभ
स्वामि
चरितम् ।
भरतस्य दिग्विजयः ।
।। १९७ ।।