________________
त्रिषष्टिशलाका
पुरुषचरिते
।। १९४ ।।
महीपतेरुपददाववदातोद्यतद्युतिम् । रत्नाकरस्य सर्वस्वमिव रत्नोत्करं च सः ।। १९० ।। तत् सर्वमग्रहीद् राजाऽन्वग्रहीद् वरदामपम् । अस्थापयच्च तत्रैव तं कीर्त्तनमिव स्वकम् ।। १९१ ।। वरदामेशमाभाष्य, सप्रसादं विसृज्य च । जगाम जगतीनाथो, विजयी शिबिरं निजम् ॥। १९२ ॥ अवतीर्य रथात् स्नात्वाऽष्टमभक्तान्तपारणम् । चक्रे समं परिजनैः, स राजरजनीकरः ॥ १२३ ॥ वरदामाधिपस्याऽथ, स चक्रेऽष्टाह्निकोत्सवम् । लोके महत्त्वदानाय, महन्त्यात्मीयमीश्वराः ।। १९४ ॥ प्रति प्रतीचीं प्राचीनबर्हिरन्य इवौजसा । चक्री चक्रानुगोऽचालीत्, प्रभासाभिमुखं ततः ॥ १९५ ॥ पूरयन् रोदसीरन्ध्र, नीरन्ध्रः सैन्यरेणुभिः । स प्रयाणैः कतिपयैः, पयोधि प्राप पश्चिमम् ।। १९६ ।। ततः क्रमुकताम्बूलीनालिकेरीवनाकुले । स्कन्धावारं विनिदधे, स रोधस्यपरोदधेः ।। १९७ ।। प्रभासनाथमुद्दिश्याऽष्टमभक्तं व्यधात् ततः । राजा जग्राह च प्राग्वत्, पौषधं पौषधौकसि ।। १९८ ॥ पौषधान्ते समारुह्य, स्यन्दनं मेदिनीपतिः । प्रविवेश पयोराशि, पाशपाणिरिवाऽपरः ।। १९९ ।। अतिक्रम्य जलं चक्रनाभिदघ्नं महीपतिः । स्यन्दनं धारयामासाऽधिज्यं च विदधे धनुः ॥ २०० ॥ जयश्रीकेलिवल्लेक्या, धनुर्यष्टेर्विशांपतिः । पाणिना वादयामास, मौर्वी तन्त्रीमिवोच्चकैः ॥ २०१ ॥ शरं चकर्ष शेरधेर्नीरधेर्वेत्रदण्डवत् । आसयच्च नृपो बाणासनेऽतिथिमिवाऽऽसने ।। २०२ ।। ततः प्रभासाभिमुखं, तं चिक्षेप शिलीमुखम् । आदित्यबिम्बादाकृष्टमिवैकं किरणं नृपः ।। २०३ ।
१ कीर्तिकारकमिव । २ राजचन्द्रः । ३ पूजयन्ति । ४ इन्द्रः । ५ द्यावाभूमी । ६ घनैः । ७ पूगवृक्षाः । ८ पश्चिम समुद्रस्य । ९ वरुणः । १० रथाङ्गनाभिप्रमाणम् | ११ जयलक्ष्मीक्रीडावीणायाः । १२ निषङ्गात् । १३ वृक्षविशेषः ।
प्रथमं पर्व
चतुर्थः
सर्गः
श्रीऋषभस्वामिचरितम् ।
भरतस्य
दिग्विजयः ।
।। १९४ ।।