________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व चतुर्थः सर्गः श्रीऋषभस्वामिचरितम् ।
॥१९५ ॥
वेगाद् वायुरिवोलचय, वार्द्धादशयोजनीम् । द्या भाभिर्भासयन् प्राप, स प्रभासेशवेश्मनि ॥२०४ ।। क्रुद्धः सोऽपि शरं प्रेक्ष्य प्रेक्ष्य तत्राऽक्षराणि च । सद्योऽशाम्यन्नट इव, प्रादुष्कृतरसान्तरः ।। २०५ ॥ तं पत्रिणमुपादायोपदामप्यपरां स्वयम् । ययौ भूपं प्रभासेशो, नत्वा चैवं व्यजिज्ञपत् ।। २०६ ।। अद्य देव ! प्रभासोऽस्मि, भासितः स्वामिना त्वया । रवेः करैः कमलानि, कमलानि भवन्ति हि ॥२०७ ॥ एष प्रत्यग्दिगन्तस्थः, सामन्त इव ते प्रभो ! । सर्वदा शासनं मूर्ना, धास्याम्यवनिशासन ! ।।२०८ ॥ इत्युक्त्वा भरतेशस्य, तमादौ प्रहितं शरम् । खलूरिकापत्तिरिव, प्रभासपतिरार्पयत् ।। २०९ ॥ कटकानि कटीसूत्रं, चूडामणिमुरोमणिम् । निष्कादि चाऽर्पयद् राज्ञे, मूर्त तेज इव स्वकम् ।। २१० ॥ तस्याऽऽश्वासकृते सर्व, तदुर्वीपतिरग्रहीत् । प्रभोः प्रसादचिह्न हि, प्राभूतांदानमादिमम् ।। २११ ।। तत्रैव स्थापयित्वा तमावाल इव पादपम् । स आययौ पुनः स्कन्धावारं वैरिनिवारणः ।। २१२ ।। तत्कालं गृहिरलेन, कल्पावनिरुहेव सः । उपनीतैर्दिव्यभोज्यैर्विदधेऽष्टमपारणम् ।। २१३ ॥ नृपः प्रभासदेवस्य, चक्रे चाऽष्टाहिकोत्सवम् । आदौ सामन्तमात्रस्याऽप्युचिताः प्रतिपत्तयः ।। २१४ ॥ अनुदीपमिवाऽऽलोकोऽनुचक्रं भूपतिर्ययौ । ततः सिन्धोर्महासिन्धो, रोधः प्राप च दक्षिणम् ।। २१५ ।। पूर्वाभिमुखमुर्वीशो, गत्वा तेनैव रोधसा । निकषा सिन्धुसदनं, स्कन्धावारं न्यवीविशत् ।। २१६ ॥ अष्टमं विदधे तत्र, सिन्धुं मनसिकृत्य सः । आसनं सिन्धुदेव्याश्चाऽचलद् वाताहतोर्मिवत् ।। २१७ ॥ ततः साऽवधिनाऽज्ञासीदायातं चक्रवर्त्तिनम् । प्रभूतैः प्राभृतैर्दिव्यैस्तं चाऽर्चितुमुपाययौ ॥२१८ ॥ १ शस्त्राभ्यासभूमिः । २ वक्षःस्थलमणिम् । ३ दीनारादि । ४ उपायनग्रहणम् । ५ कल्पवृक्षेण । ६ सत्काराः । ७ समीपे ।
भरतस्य दिग्विजय ।
॥१९५ ॥