________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथम पर्व चतुर्थः सर्गः
॥१९३ ॥
श्रीऋषभस्वामिचरितम् ।
कुष्ठीवोत्पन्नवैराग्यो, जीवितव्यस्य कोऽथवा ? । चिक्षेप यो रभसया, मम पर्षदि पत्रिणम् ।। १७५ ।। तमनेनैव बाणेन, हन्मीति वरदामराट् । उत्थाय पाणिना बाणं, तं कोपग्रहिलोऽग्रहीत् ।। १७६ ॥ मागधाधीश्वर इव, वरदामेश्वरस्ततः । तानि तत्राऽक्षराणीक्षाञ्चक्रे पत्रिणि चक्रिणः ॥ १७७ ॥ तान्यक्षराणि सम्प्रेक्ष्याऽहिर्नागदमनीमिव । वरदामपतिः सद्योऽप्यशाम्यदिति चाऽब्रवीत् ।। १७८ ॥ मण्डूक इव कृष्णाहेश्चपेटां दातुमुद्यतः । प्रजिहीर्षुर्विषाणाभ्यामुरघ्र इव दन्तिनः ।। १७९ ।। पिपातयिषुरुधिं, दशनाभ्यामिव द्विपः । मन्दधीरतेनाऽस्मि, युयुत्सुश्चकवर्तिना ।। १८० ॥ भवत्वद्यापि नो किञ्चिद्, विनष्टमिति स ब्रुवन् । उपायनान्युपानेतुं, दिव्यानि स्वान् समादिशत् ॥ १८१ ।। ततस्तं शरमादाय, प्राभृतान्यद्भुतानि च । आर्षभि सोऽभ्यगादिन्द्र, इव श्रीऋषभध्वजम् ।। १८२ ।। स नत्वा तमुवाचैवमद्य क्ष्मापुरुहूत ! ते । दूतेनेव समाहूतः, पत्रिणाऽहमिहाऽऽगमम् ।। १८३ ।। त्वामिहाऽऽयातमुर्वीश!, न स्वयं यदुपागमम् । सहस्व मे तदज्ञस्य, निहते दोषमज्ञता ।। १८४ ।। श्रान्तेनेवाऽऽश्रमः पूर्ण, तृषितेनेव पल्वलम् । स्वामिन्नस्वामिना स्वामी, मया प्राप्तोऽसि सम्प्रति ।। १८५ ॥ अद्य प्रभृति भूनाथ !, स्थापितोऽहमिह त्वया । स्थास्यामि भवतो वेलाधरो गिरिरिवोदधेः ।। १८६ ।। इत्युक्त्वा भरतेशाय, निर्भरं भक्तिभागसौ । अर्पयामास तं बाणं, न्यासीकृतमिवाऽग्रतः ।। १८७ ।। कटीसूत्रं रत्नमयं, रोचीरोचितदिङ्मुखम् । राज्ञः सोऽदात् तिग्मरोची रोचिभिरिव गुम्फितम् ।। १८८ ॥ पुरतो भरतेशस्य, ढौकयामास चोज्ज्वलम् । मुक्ताराशि यशोराशिमिव स्वं चिरसञ्चितम् ॥ १८९ ।। १ मेकः । २ श्रृङ्गाभ्याम् । ३ मेषः । ४ पर्वतम् । ५ भरतम् । ६ हे पृथ्वीन्द्र ! |७ लघुजलाशयः ।
भरतस्य दिग्विजयः।
॥१९३ ॥