________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व चतुर्थः सर्गः श्रीऋषभस्वामिचरितम् ।
॥१९२ ॥
पौषधान्ते बहिर्भूत्वा, नृपः पौषधवेश्मनः । उपाददे धनुः कालपृष्ठं प्रष्ठो धनुर्भृताम् ।। १६० ।। सर्वतः स्वर्णरचितं, खचितं रत्नकोटिभिः । आरुरोह रथं राजा, वासागारं जयश्रियः ।। १६१ ।। अधिष्ठितो नृदेवेनाऽत्युदाराकारधारिणा । प्रासाद इव देवेन, शुशुभे स महारथः ।। १६२ ॥ अनुकूलमरुल्लोलपताकामण्डिताम्बरः । स स्यन्दनवरोऽम्भोधौ, यानपात्रमिवाऽविशत् ।। १६३ ।। रथाङ्गनाभिद्वयसं, गत्वा जलनिधेर्जलम् । रथस्तस्थौ रथाग्रस्थसारथिस्खलितैर्हयैः ।। १६४ ।। अन्तेवासिनमाचार्य, इव विश्वम्भरापतिः । आनतीकृत्य विदधेऽधिगुणं विशिखासनम् ।। १६५ ॥ संग्रामनाटकारम्भनान्दीनिर्घोषमुच्चकैः । आह्वानमन्त्रं कालस्य, ज्याटङ्कारं चकार सः ।। १६६ ।। आकृष्य बाणधेर्बाणं, न्यधाद् बाणासने नृपः । भालान्तरालरचिततिलकश्रीमलिम्लुचम् ।। १६७ ।। वक्रीकृतस्य धनुषो, मध्ये धूर्धमदायिनम् । शिलीमुखं महीनाथः, कर्णाहमुपानयत् ।। १६८ ।। किं करोमीति विज्ञीप्सुमिव कर्णान्तमागतम् । विससर्ज शरं राजा, वरदामाधिपं प्रति ।। १६९ ॥ शैलैः पतत्पविभ्रान्त्या, तायभ्रान्त्या च पन्नगैः । अब्धिना चाऽपरौर्वाग्निभ्रान्त्या समयमीक्षितः ।। १७० ॥ गगनं द्योतयन्नुच्चैर्गत्वा द्वादशयोजनीम् । बाणः सोऽपतदुल्केव, वरदामेशपर्षदि ।। १७१ ।। ।। युग्मम्।। विद्विषत्प्रेषितं घातकारं नरमिवाऽग्रत । पतितं प्रेक्ष्य तं बाणं, चुकोप वरदामराट् ।। १७२ ।। उद्वेल इव पाथोधिरुद्धान्तभूतरङ्गितः । उद्दामां वरदामेशो, वाचमेवमवोचत ।। १७३ ।। केनाऽध केसरी सुप्तः, पंदा स्पृष्ट्वा प्रबोधितः ? । कस्य वाचयितुं पत्रमधोदक्षेपि मृत्युना ? || १७४ ॥ १ धुरा । २ कर्णपयन्तम् । ३ अन्यवडवाग्निभ्रान्त्या । ४ पान ।।
भरतस्य दिग्जयार्थ प्रयाणम् ।
| | १९२।