________________
त्रिषष्टि
शलाका
पुरुषचरिते
।। १९१ ।।
आकर्णाकृष्टकोदण्डान्निर्यातं ते शिलीमुखम् । अलम्भविष्णुः कः सोढुं, बिडौजस इवाऽशनिम् ? ।। १४४ ।। प्रसादं कुर्वता त्वेष, प्रमत्तस्य मम त्वया । कर्त्तव्यज्ञापनायेषुः, प्रैषि वेत्रिपुमानिव ।। १४५ ।। अतः परमहं नाथ !, महीनाथशिरोमणे ! । शिरोमणिमिवाऽऽज्ञां ते, धारयिष्यामि मूर्धनि । १४६ ।। स्वामिन्! मागधतीर्थेऽस्मिन् स्थास्याम्यारोपितस्त्वया । तवैव प्राग्जयस्तम्भ, इव निर्द-भक्तिभाक् ॥ १४७ ॥ एते वयमिदं राज्यमेष सर्वः परिच्छदः । त्वदीयमेवाऽन्यदपि, शाधि नः पूर्वपत्तिवत् ॥ १४८ ॥ इत्युक्त्वा सोऽर्पयामास, चक्रिणे पत्रिणं सुरः । तच्च मागधतीर्थाम्भः, किरीटं कुण्डले अपि ॥ १४९ ।। तच्च राजा प्रतीयेष, मागधाधिपतिं च तम् । सच्चकार महान्तो हि सेवोपनतवत्सलाः ॥। १५० ।। अथ रथं वालयित्वा पथा तेनैव पार्थिवः । स्कन्धावारं निजमगात्, सुत्रामेवाऽमरावतीम् ।। १५१ ।। अवरुह्य रथादङ्गं, प्रक्षाल्य सपरिच्छदः । चकाराऽष्टमभक्तान्तपारणं भरतेश्वरः ।। १५२ ।। तदा मागधनाथस्य, महद्धर्ज्या वसुधाधवः । चक्रस्येवोपनतस्य विदधेऽष्टाहिकोत्सवम् ।। १५३ ।। आदित्यस्यन्दनस्रस्तमिव तेजोभिरुल्बणम् । अष्टाहिकोत्सवान्ते च चक्ररत्नं चचाल खे ।। १५४ ।। दक्षिणस्यां वरदामतीर्थं प्रति ययौ ततः । चक्रं तच्चक्रवर्ती च, धातुं प्रादिरिवाऽन्वगात् ।। १५५ ।। प्रयाणैः प्रत्यहं गच्छन्, राजा योजनमात्रकैः । दक्षिणाब्धि क्रमात् प्राप, मानसं राजहंसवत् ।। १५६ ।। एलालवङ्गलवलीकक्कोलबहले नृपः । सैन्यान्यावासयामास, दक्षिणाम्भोधिरोधसि ।। १५७ । आवासान् सर्वसैन्यस्य, पौषधौकश्च वर्द्धकिः । पूर्ववद् रचयामास, शासनाच्चक्रवर्त्तिनः ।। १५८ ।। वरदामामरं चित्ते, कृत्वाऽष्टमतपोऽकरोत् । नृपतिः पौषधागारे, पौषधं च समाददे ।। १५९ ।।
प्रथम पर्व
चतुर्थः सर्ग.
श्रीऋषभ-स्वामिचरितम् ।
भरतस्य
दिग्जयार्थं
प्रयाणम् ।
॥। १९१ ।।