________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थः
सर्गः
॥१९०॥
श्रीऋषभस्वामि-- चरितम् ।
महासाराण्युदाराणि, तत्र पत्रिणि मन्त्रिराट् । दीव्यमन्त्राक्षराणीवेत्यक्षराणि व्यलोकयत् ।। १२९ ।। राज्येन यदि वः कार्य, जीवितव्येन वा यदि । ततः सेवां कुरुध्वं नः, स्वसर्वस्वोपढौकनात् ।। १३० ।।। इत्यादिशति वः साक्षात्, सुरासुरनरेशितुः । ऋषभस्वामिनः सूनुर्भरतश्चक्रवर्त्ययम् ।। १३१ ॥ मन्त्री दृष्ट्वाऽक्षराण्येवं, विज्ञायाऽवधिना च तत् । दर्शयन् स्वामिनो बाणमुच्चकैरित्यवोचत ।। १३२ ।। भो भोः सर्वे राजलोका !, धिग् वो रभसकारिणः । स्वामिनोऽर्थधियाऽनर्थदायिनो भक्तमानिनः ।। १३३ ।। भरतो भरतक्षेत्रे, प्रथमश्चक्रवर्त्यभूत् । सूनुः प्रथमतीर्थेशऋषभस्वामिनो ह्ययम् ।। १३४ ।। स एष याचते दण्डं, दिधारयिषते च वः । पाकशासनवच्चण्डशासनः शासनं निजम् ।। १३५ ।। अपि शोष्येत पाथोधिर्मेरुरप्युद्धियेत च । कृतान्तोऽपि निहन्येतोत्क्षिप्येताऽपि वसुन्धरा ।। १३६ ।। दम्भोलिरपि दल्येत, विध्याप्येताऽपि वाडवः । कथञ्चन न जीयेत, चक्रवर्ती महीतले ।। १३७ ।। ।।युग्मम्।। देवाऽयं वार्यतां लोकः, स्तोकधीर्धीमतांवरः । प्रगुणीक्रियतां दण्डश्चक्रिणे प्रणतो भव ।। १३८ ।। आकर्ण्य मन्त्रिवाचं तां, दृष्ट्वा तान्यक्षराणि च । गन्धेभगन्धमाघ्राय, करीव प्रशशाम सः ॥ १३९ ।। उपायनमुपादाय, तं चेषू मागधाधिपः । उपेत्य भरताधीश, नत्वा चैवं व्यजिज्ञपत् ।। १४० ।। दिष्ट्या दृष्टिपथं प्राप्तोऽस्यधुना मम भूपते! । स्वामिन् ! कुमुदखण्डस्य, शशाङ्क इव पार्वणः ।। १४१ ।। भगवानृषभस्वामी, प्रथमस्तीर्थकृद् यथा । प्रथमश्चक्रवर्ती त्वं, तथा विजयसे भुवि ॥ १४२ ॥ सुरेभस्य प्रतीभः को ?, वायोः प्रतिबली च कः ? | नभसः प्रतिमानं कः ?, प्रतिमलश्च तेऽस्तु कः ? ॥१४३ ।। १ साहसकारिणः । २ धारयितुमिच्छति । ३ इन्द्रवत् । ४ वडवाग्निः । ५ अल्पबुद्धिः ।
भरतस्य दिग्जयार्थ प्रयाणम् ।
।। १९०॥