________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व चतुर्थः सर्गः श्रीऋषभस्वामिचरितम् ।
॥१८९ ।।
ताडयन्नासनं वामहस्तेनाऽरिकपोलवत् । वाचं विषार्चिःसध्रीचीमित्यूचे मागधाधिपः ।। ११५ ॥
॥चतुर्भिः कलापकम् ।। ऐरावणरदाश्छित्वा, कस्ताडतान चिकीर्षति ? । सौपर्णेयस्य कः पक्षैरवतंसान विधित्सति ? ।। ११६ ।। कः पन्नगपतेमौलिमणिमाला जिघृक्षति ? । सहस्रदीधितेः को वा, हयानपि जिहीर्षति ? ।। ११७ ।। अप्रार्थितप्रार्थकः को, वीरमान्यविमृश्यकृत ? । अस्माकमस्मिन् सदसि, प्रचिक्षेप शरं कुधीः ? ॥११८ ॥ सुपर्ण इव सर्पस्य, दर्प तस्य हराम्यहम् । एवं ब्रुवाणो रभसादुत्तस्थौ मागधाधिपः ।। ११९ ॥ बिलादिवोरगं कोशात, खंगदण्डं चकर्ष सः । कम्पयामास च व्योम्नि, धूमकेतुभ्रमप्रदम् ।। १२० ॥ वार्धिवेलेव दुर्वारः, परिवारोऽपि तत्क्षणम् । युगपत् सकलोऽप्यस्य, सकोपाटोपमुत्थितः ॥ १२१ ॥ खड्नेः केचिद् दिवं चक्रुः, कृष्णविद्युन्मयीमिव । वसुनन्दैश्च विशदैरनेकेन्दुमयीमिव ।। १२२ ।। नितान्तनिशितान् कुन्तान्, खे केचिदुदलालयन् । कृतान्तदन्तशकलश्रेणीभिरिव निर्मितान् ।। १२३ ।। परशून् केचिदुज्जहुर्वह्निजिह्वासहोदरान् । स्वर्भानुभीमपर्यन्तान्, जगृहुः केऽपि मुद्गरान् ।। १२४ ।। वज्रकोट्युत्कटान्यन्ये, शूलान्याददिरे करे । अपरे दण्डभृद्दण्डचण्डान् दण्डानुदक्षिपन् ।। १२५ ।। चक्रुः केऽपि करास्फोटं, वैरिविस्फोटकारणम् । क्ष्वेडानादं व्यधुः केऽपि, मेघनादमिवोर्जितम् ।। १२६ ।। केचिज्जहि जहीत्यूचुः, केचिद् धर धरेति च । तिष्ठ तिष्ठेति केचिच्च, याहि याहीति केचन ।। १२७ ।। इत्यभूच्चित्रसंरम्भचेष्टो यावत् परिच्छदः । तस्य तावदमात्यस्तं, सम्यग् बाणं न्यरुपयत् ।। १२८ ।। १ विषज्वालातुल्याम् । २ कर्णभूषणविशेषान् । ३ अविचार्यकारी । ४ दरात् । ५ युद्धसाधनविशेषैः । ६ राहुः ।
भरतस्य दिग्जयार्थ प्रयाणम् ।
||१८९।।