________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थः
सर्गः श्रीऋषभस्वामिचरितम् ।
॥१८८॥
प्रसरद्भिर्महीभर्तुर्नखरत्नमरीचिभिः । शुशुभे स महाबाणः, सोदरैरिव वेष्टितः ।। १०१ ।। आकृष्टकार्मुकान्तःस्थो, दीप्यमानः स सायकः । व्यात्तान्तकमुखप्रेज्जिह्वालीलामुपाददे ।। १०२ ॥ धनुर्मण्डलमध्यस्थः, स मध्यमर्जगत्पतिः । शुशुभे परिवेषान्तर्भानुमानिव दारुणः ।।१०३ ।। चालयिष्यति किं स्थानान्निग्रहीष्यत्यथैष माम् ? । इतीव चुक्षोभ तदा, सर्वतो लवणाम्बुधिः ।। १०४ ।। अथोर्वीशो बहिर्मध्ये, मुखे पुढे च सर्वदा । नागासुरसुपर्णादिदेवताभिरधिष्ठितम् ।। १०५ ।। आज्ञाकरंदूतमिव, शिक्षाक्षरभयानकम् । अभि मागधतीर्थेशं, विससर्ज शिलीमुखम् ।।१०६ ।।।।युग्मम् ॥ उद्दामपक्षसूत्कारवाचालितनभोङ्गणः । निर्ययौ तत्क्षणं वेगात्, स पत्री पत्रिराडिव ।। १०७ ॥ विद्युद्दण्ड इवाऽम्भोदादुल्काग्निर्गगनादिव । स्फुलिङ्ग इव सप्तार्चेर्लेश्यार्चिरिव तापसात् ।। १०८ ॥ शिखीव सूर्योपलतो, वजं वज्रिभुजादिव । निष्पतन्नृपकोदण्डादशोभत स सायकः ।। १०९ ।। ।। सन्दानितकम्।। योजनानि द्वादशाऽतिक्रम्य पत्री क्षणेन सः । सभायां मागधेशस्य, हृदि शल्यमिवाऽपतत् ।। ११०॥ अकाण्डकाण्डपातेन तेन मागधतीर्थराट् । उच्चैश्चुकोप दण्डाभिंघट्टनेनेव पन्नगः ॥ १११ ॥ वक्रीकुर्वन् ध्रुवोर्युग्मं, कोदण्डमिव दारुणम् । दधानश्चक्षुषी ताने, दीप्ताग्निविशिखाविव ।। ११२ ।। भस्त्रापुटे इवोत्फुल्लीकुर्वाणो नासिकापुटे । स्फोरयन्नधरदलं, तक्षकाहेरिवाऽनुजम् ।। ११३ ।। ललाटे घटयन् लेखाः, केतूनिव नभस्तले । गृह्णन् दक्षिणहस्तेन, वार्तिकोऽहिमिवाऽऽयुधम् ।। ११४ ।। १ प्रसारितयममुखचलज्जिङ्खालीलाम् । २ पृथ्वीपतिः ।३ मण्डलान्तः स्थितः सूर्य इव । ४ गरुडः । ५ अग्नेः । ६ अग्निः । ७ अकस्माद् बाणपातेन । ८ दण्डताडनेन । ९ गारुडिकः ।
भरतस्य दिग्जयार्थ प्रयाणम् ।
|| १८८॥