________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
चतुर्थः सर्गः श्रीऋषभस्वामिचरितम् ।
॥१८७॥
अष्टमान्ते नृपः पूर्णपौषधः पौषधौकसः । शरदभ्रादिवाऽऽदित्यो, निर्ययावधिकधुतिः ।। ८७ ।। राजा सर्वार्थनिष्णातः, स्नातो बलिविधि व्यधात् । यथाविधि विधिज्ञा हि, विस्मरन्ति विधिं न हि ॥८८ ॥ उत्पताकध्वजस्तम्भ, प्रासादमिव जङ्गमम् । शस्त्रागारामिवाऽनेकशस्त्रश्रेणिविभूषितम् ।। ८९ ।। चतुर्दिग्विजयश्रीणामिवाऽऽह्वानार्थमुच्चकैः । टणत्कारकृतो घण्टाश्चतस्रश्चारुबिभ्रतम् ।। ९० ।। पवनैरिव जङ्घालैधरैः पञ्चाननैरिव । अश्वैः सनाथमध्यास्त, स रथं रथिनां वरः ।। ९१ ।।
॥ त्रिभिर्विशेषकम् ।। राज्ञो भावविशेषज्ञो, वासवस्येव मातलिः । नुनोद सारथी रथ्यान्, रश्मिचालनमात्रतः ।। ९२ ।। महाकरिगिरिस्तोमो, महाऽनोमकरोत्करः । विलोलहयकल्लोलश्चित्रशस्त्राऽहिभीषणः ।। ९३ ॥ उच्छलद्भूरजोवेलो, रथनिर्घोषगर्जितः । द्वितीय इव पाथोधिः, पाथोधि प्रत्यगान्नृपः ।। ९४ ।। (युग्मम्) | संवर्द्धिताम्बुनिर्घोषस्त्रस्तनक्रकुलारवैः । नाभिदैघ्नं रथेनाऽम्भोऽम्भोनिधेः सोऽभ्यगाहत ।।९५ ।। न्यस्यैकं लस्तके हस्तं, द्वितीयं त्वंटनीतटे । सोऽधिज्यं विदधे धन्व, पञ्चमीन्दुविडम्बकम् ।।९६ ।। पाणिना किञ्चिदाकृष्य, धनुा भरतेश्वरः । धनुर्वेदोङ्कारमिवोच्चैष्टङ्कारमकारयत् ।। ९७ ।। पातालद्वारनिर्गच्छन्नागराजानुहारकम् । इषुधेराचकर्षेषु, निजनामाङ्कितं नृपः ।। ९८ ।। सिंहकर्णिकया मुष्ट्या, धृत्वा पुनग्रभागके । शिञ्जिन्यां निदधे बाणं, वज्रदण्डमरातिषु ।। ९९ ।। सौवर्णकर्णताडङ्कपद्मनालतुलास्पृशम् । आकर्णान्तं स आकर्षत्, काञ्चनं तं शिलीमुखम् ।। १००॥ १ त्रस्तमकरकुलशब्दैः । २ नाभिप्रमाणम् । ३ धनुर्मध्यभागे । ४ ज्यारोपणस्थाने । ५ धनुर्गुणे ।
भरतस्य दिग्जयार्थ प्रयाणम् ।
|| १८७॥