________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व | चतुर्थः सर्गः श्रीऋषभस्वामि
॥१८६ ॥
चरितम्
स्वच्छन्दं जाह्नवीतीरतले सिकतिलेऽलुठन् । भृत्या इव स्वामिनोऽग्रे, वेसराश्चलकेसराः ॥७२ ।। केचिदाजहुरेधासि, सरिदम्भांसि केचन । दूर्वादिमारकान् केचित्, केचिच्छाकफलादिकम् ।। ७३ ।। प्रचख्नुश्चल्लिकाः केचित्, तन्दुलान् केऽप्यखण्डयन् । केचिदज्वालयन्नग्निमपचन् केचिदोदनम् ।।७४ ।। सस्नुः केऽप्येकतस्तत्र, स्वोकसीवोज्ज्वलैर्जलैः । स्नाता धूपैरधूपायन्, केऽप्यात्मानं सुगन्धिाभः ।।७५ ।। केचिद् बुभुजिरे स्वैरं, पुरो भुजानपत्तयः । सह स्त्रीभिर्विलिलिपुः, केचिदङ्ग विलेपनैः ।।७६ ।। नाऽमस्त कटकायातं, कोऽप्यात्मानं मनागपि । लीलोपलभ्यसर्वार्थे, शिबिरे चक्रवर्तिनः ।। ७७ ।। अहोरात्रे व्यतिक्रान्ते, तस्मिन् पुनरपि प्रेगे । चक्ररत्नं जगामैकं, योजनं चक्रवर्त्यपि ।। ७८ ।। एवं योजनमानेन, प्रयाणेन दिने दिने । गच्छंश्चक्रानुगश्चक्री, मागधं तीर्थमासदत् ।। ७९ ।। नवयोजनविस्तार, दैर्घ्य द्वादशयोजनम् । पूर्वाब्धिरोधसि नृपः, स्कन्धावारं न्यवीविशत् ।। ८० ।। आवासान् सर्वसैन्यानां, तत्र व्यधित वर्द्धकिः । एकां पौषधशालां च, शालां धर्मेकदन्तिनः ।। ८१ ।। राजा पौषधशालायामनुष्ठानविधित्सया । उत्ततार करिस्कन्धात्, पर्वतादिव केसरी ।। ८२ ।। तत्र संस्तारयामास, दर्भसंस्तारकं नवम् । राजा संयमसाम्राज्यलक्ष्मीसिंहासनोपमम् ।। ८३ ॥ मागधतीर्थकुमार, देवं मनसि कृत्य च । प्रपेदेऽष्टमभक्तं सोऽर्थसिद्धारमादिमम् ।। ८४ ।। स धौतांशुकभृत् त्यक्तनेपथ्यस्रग्विलेपनः । त्यक्तशस्त्रः पुण्यपोषौषधं पौषधमाददे ।। ८५ ।। दर्भसंस्तारके तस्मिन्, प्रतिजाग्रत् स पौषधम् । निष्क्रियो नृपतिस्तस्थौ, सिद्धः पद इवाऽव्यये ।। ८६ ।। १ सिकतामये ।* सनारीका वि सं २, आ ॥२ प्रातःकाले ।३ शिबिरम् । ४ मोक्षे । • 'खच्चर' इति भाषायाम् ।
भरतस्य दिग्जयार्थ प्रयाणम।
|| १८६||