________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
| चतुर्थः
सर्गः श्रीऋषभस्वामिचरितम् ।
।। १८४ ॥
सैन्ये प्रत्याश्रयं दिव्यभोजनापादनक्षमम् । अचालीद् गृहिरत्नं च, सत्रशालेव जङ्गमा ।। ४३ ॥ स्कन्धावारादि निर्मातुं, विश्वकर्मेव सत्वरम् । अलं वर्धकिरत्नं च, चचाल सह भूभुजा ॥४४ ॥ चचाल चर्मरत्नं च, च्छत्ररत्नमिवाऽद्भुतम् । चक्रिणः सकलस्कन्धावारविस्तारशक्तिमत् ।। ४५ ॥ रत्ने च मणि-काकिण्यौ, ध्वान्तविध्वंसनक्षमे । सह प्रचेलतुर्भाभिः, सूर्याचन्द्रमसाविव ।। ४६ ॥ ययौ सह नरेन्द्रेण, खङ्गरत्नं च भासुरम् । सुरासुरवरास्त्राणामिव सारैर्विनिर्मितम् ॥ ४७ ।। ततश्च सचमूचक्रश्चक्रभृद् भरतेश्वरः । प्रतीहारानुग इवाऽगमच्चक्रानुगः पथि ।। ४८ ॥ पवनेनाऽनुकूलेनाऽनुकूलैः शकुनैरपि । सर्वतो दिग्जयस्तस्याऽशंसि ज्यौतिषिकैरिव ॥ ४९ ।। विषमं सुषमीचक्रे, सैन्यस्य पुरतो व्रजन् । सेनानीर्दण्डरत्नेन, मतेनेव कृषिः क्षितिम् ।। ५० ॥ रुरुचे पृतनोद्भूतरजोभिः कृतदुर्दिनम् । रथद्विपपताकाभिर्बलाकाभिरिवाऽम्बरम् ।। ५१ ।।। अदृश्यमानपर्यन्ता, सा चमूश्चक्रवर्तिनः । गङ्गाऽलक्षि द्वितीयेव, सर्वत्राऽप्यस्खलद्गतिः ।। ५२ ॥ चीत्कृतैः स्यन्दना वाहा, हेषितैर्गर्जितैर्गजाः । अतत्वरन्निवाऽन्योऽन्यं, दिग्जयोत्सवकर्मणे ।। ५३ ।। अद्युतन् सादिनां कुन्ताश्चमूत्खाते रजस्यपि । हसन्त इव तच्छन्नान्, दीघितीनुष्णदीधितेः ।। ५४ ।। आबद्धमुकुटै रेजे, राजभी राजकुञ्जरः । भक्तिमद्भिर्वृतो गच्छन्, शक्रः सामानिकैरिव ।। ५५ ।। गत्वा योजनपर्यन्ते, तच्च चक्रमवास्थित । जज्ञे योजनमानं च, तत्प्रयाणानुमानतः ।। ५६ ॥ ततो योजनमानेन, प्रयाणेन व्रजन नृपः । गङ्गाया दक्षिणं कूलं, प्रापत् कतिपयैर्दिनैः ॥५७ ॥ १ दानशाला । २ देवशिल्पी । ३ सूर्यस्य ।
भरतस्य दिग्जयार्थ प्रयाणम् ।
|| १८४॥