________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व चतुर्थः सर्गः श्रीऋषभस्वामिचरितम् ।
।। १८३ ॥
स्वर्णकुम्मभृता श्वेतातपत्रेणोपशोभितः । श्रीसद्मपद्मभृत्पद्मादेन हिमवानिव ।। ३० ।। सर्वदा सन्निधानस्थैः, प्रतीहारैरिवाऽभितः । भक्तैः षोडशभिर्यक्षसहस्रैः परिवारितः ।। ३१ ।। उत्तुङ्गकुम्भशिखरस्थगितैकदिगाननम् । आरोहद् वासव इवैरावणं रत्नकुञ्जरम् ।। ३२ ।। स गर्जन्नूर्जितं नागकुञ्जरस्तत्क्षणादभूत् । उद्दाममदधाराभिर्धाराधर इवाऽपरः ।। ३३ ।। उत्क्षिप्य पाणीन् कुर्वाणैर्दिवं पल्लवितामिव । युगपद् बन्दिनां वृन्दैश्चक्रे जयजयारवः ।। ३४ ।। दुन्दुभिस्ताड्यमानोऽथ, नदन्नुच्चैर्दिशोऽपि हि । नादयामास मुखरंगायनो गायनीरिव ।। ३५ ।। दूतीभूतानि निःशेषसैनिकाह्वानकर्मणि । प्रणेदुर्वर्यतूर्याणि, मङ्गलान्यपराण्यपि ।।३६ ॥ गजैः सिन्दूरभृत्कुम्भैः, सधातुभिरिवाऽद्रिभिः । अश्वैरनेकधाभूतरेवन्ताश्वभ्रमप्रदैः ।। ३७ ॥ मनोरथैरिव निर्विशालैश्च महारथैः । पत्तिभिश्च महौजोभिः, सिंहैरिव वशंवदैः ।।३८ ।। प्रचचाल महीपालः, पूर्वं पूर्वां दिशं प्रति । संव्यानमिव तन्वानः, सैन्योत्थैः पांशुभिर्दिशाम् ।।३९ ।।
॥त्रिभिर्विशेषकम् ।। तत्सैन्याग्रेसरं यक्षसहस्त्राधिष्ठितं ततः । चक्ररत्नमभूदु बिम्ब, भानोरिव नभश्चरम् ॥ ४० ॥ दण्डरत्नधरो वाजिरत्नमारुह्य तत्परः । नाम्ना सुषेणः सेनानीरत्नं चक्रमिवाऽचलत् ॥४१ ॥ निःशेषशान्तिकविधौ, शान्तिमन्त्र इवाऽगवान् । पुरोधोरत्नमचलन्, समं वसुमतीभुजा ।। ४२ ।। १ मेघः । २ मुख्यगायकः । ३ सूर्याश्वाः ४ महापराक्रमैः । ५ वस्त्रम् ।
चक्रिणां रलानि ।
।। १८३।।